ऋग्वेदसंहिता, पदपाठ · अध्याय 8.82
॥38॥.
-र्व्_6:6।1-
(र्व्_8,82)
आ । प्र । द्रव । परावतः । अर्वावतः । च । वृत्र-हन् । मध्वः । प्रति । प्र-भर्मणि
तीव्राः । सोमासः । आ । गहि । सुतासः । मादयिष्णवः । पिब । दधृक् । यथा । ओचिषे
इषा । मन्दस्व । आत् । ओं इति । ते । अरम् । वराय । मन्यवे । भुवत् । ते । इन्द्र । शम् । हृदे
आ । तु । असत्रो इति । आ । गहि । नि । उक्थानि । च । हूयस्चे । उप-मे । रोचने । दिवः
तुभ्य । अयम् । अद्रि-भिः । सुतः । गोभिः । श्रीतः । मदाय । कम् । प्र । सोमः । इन्द्र । हूयते
॥1॥.
-र्व्_6:6।2-
इन्द्र । श्रुधि । सु । मे । हवम् । अस्मे इति । सुतस्य । गो--मतः । वि । पीतिम् । तृप्तिम् । अश्नुहि
यः । इन्द्र । चमसेषु । आ । सोमः । चमूषु । ते । सुतः । पिब । इत् । अस्य । त्वम् । ईशिषे
यः । अप्-सु । चन्द्रमाः-इव । सोमः । चमूषु । ददृशे । पिब । इत् । अस्य । त्वम् । ईशिषे
यम् । ते । श्येनः । पदा । अभरत् । तिरः । रजांसि । अस्पृतम् । पिब । इत् । अस्य । त्वम् । ईशिषे
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0