ऋग्वेदसंहिता, पदपाठ · अध्याय 8.79
॥32॥.
-र्व्_6:5।33-
(र्व्_8,79)
अयम् । कृत्नुः । अगृभीतः । विश्व-जित् । उत्-भित् । इत् । सोमः । ऋषिः । विप्रः । काव्येन
अभि । ऊर्णोति । यत् । नग्नम् । भिषक्ति । विश्वम् । यत् । तुरम् । प्र । ईम् । अन्धः । ख्यत् । निः । श्रोणः । भूत्
त्वम् । सोम । तनूकृत्-भ्यः । द्वेषः-भ्यः । अन्य-कृतेभ्यः । उरु । यन्ता । असि । वरूथम्
त्वम् । चित्ती । तव । दक्षैः । दिवः । आ । पृथिव्याः । ऋजीषिन् । यावीः । अघस्य । चित् । द्वेषः
अर्थिनः । यन्ति । च । इत् । अर्थम् । गच्छान् । इत् । ददुषः । रातिम् । ववृज्युः । तृष्यतः । कामम्
॥33॥.
-र्व्_6:5।34-
विदत् । यत् । पूर्व्यम् । नष्टम् । उत् । ईम् । ऋत-युम् । ईरयत् । प्र । ईम् । आयुः । तारीत् । अतीर्णम्
सु-शेवः । नः । मृळयाकुः । अदृप्त-क्रतुः । अवातः । भव । नः । सोम । शम् । हृदे
मा । नः । सोम । सम् । वीविजः । मा । वि । बीभिषथा । राजन् । मा । नः । हार्दि । त्विषा । वधीः
अव । यत् । स्वे । सध-स्थे । देवानाम् । दुः-मतीः । ईक्षे । राजन् । अप । द्विषः । सेध । मीढवः । अप । स्रिधः । सेध
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0