भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 8.7

8.7.1

॥17॥.
-र्व्_5:8।18-
(र्व्_8,7)
प्र । यत् । वः । त्रि-स्तुभम् । इषम् । मरुतः । विप्रः । अक्षरत् । वि । पर्वतेषु । राजथ

8.7.2

यत् । अङ्ग । तविषी-यवः । यामम् । शुभ्राः । अचिध्वम् । नि । पर्वताः । अहासत

8.7.3

उत् । ईरयन्त । वायु-भिः । वाश्रासः । पृश्नि-मातरः । धुक्षन्त । पिप्युषीम् । इषम्

8.7.4

वपन्ति । मरुतः । मिहम् । प्र । वेपयन्ति । पर्वतान् । यत् । यामम् । यान्ति । वायु-भिः

8.7.5

नि । यत् । यामाय । वः । गिरिः । नि । सिन्धवः । वि-धर्मणे । महे । शुष्माय । येमिरे

8.7.6

॥18॥.
-र्व्_5:8।19-
युष्मान् । ओं इति । नक्तम् । ऊतये । युष्मान् । दिवा । हवामहे । युष्मान् । प्र-यति । अध्वरे

8.7.7

उत् । ओं इति । त्ये । अरुण-प्सवः । चित्राः । यामेभिः । ईरते । वाश्राः । अधि । स्नुना । दिवः

8.7.8

सृजन्ति । रश्मिम् । ओजसा । पन्थाम् । सूर्याय । यातवे । ते । भानु-भिः । वि । तस्थिरे

8.7.9

इमाम् । मे । मरुतः । गिरम् । इमम् । स्तोमम् । ऋभुक्षणः । इमम् । मे । वनत । हवम्

8.7.10

त्रीणि । सरांसि । पृश्नयः । दुदुह्रे । वज्रिणे । मधु । उत्सम् । कवन्धम् । उद्रिणम्

8.7.11

॥19॥.
-र्व्_5:8।20-
मरुतः । यत् । ह । वः । दिवः । सुम्न-यन्तः । हवामहे । आ । तु । नः । उप । गन्तन

8.7.12

यूयम् । हि । स्थ । सु-दानवः । रुद्राः । ऋभुक्षणः । दमे । उत । प्र-चेतसः । मदे

8.7.13

आ । नः । रयिम् । मद-च्युतम् । पुरु-क्षुम् । विश्व-धायसम् । इयर्त । मरुतः । दिवः

8.7.14

अधि-इव । यत् । गिरीणाम् । यामम् । शुभ्राः । अचिध्वम् । सुवानैः । मन्दध्वे । इन्दु-भिः

8.7.15

एतावतः । चित् । एषाम् । सुम्नम् । भिक्षेत । मर्त्यः । अदाभ्यस्य । मन्म-भिः

8.7.16

॥20॥.
-र्व्_5:8।21-
ये । द्रप्साः-इव । रोदसी इति । धमन्ति । अनु । वृष्टि-भिः । उत्सम् । दुहन्तः । अक्षितम्

8.7.17

उत् । ओं इति । स्वनेभिः । ईरते । उत् । रथैः । उत् । ओं इति । वायु-भिः । उत् । स्तोमैः । पृश्नि-मातरः

8.7.18

येन । आव । तुर्वशम् । येन । कण्वम् । धन-स्पृतम् । राये । सु । तस्य । धीमहि

8.7.19

इमाः । ओंम् । वः । सु-दानवः । घृतम् । न । पिष्युषीः । इषः । वर्धान् । काण्वस्य । मन्म-भिः

8.7.20

क्व । नूनम् । सु-दानवः । मदथ । वृक्त-बर्हिषः । ब्रह्मा । कः । वः । सपर्यति

8.7.21

॥21॥.
-र्व्_5:8।22-
नहि । स्म । यत् । ह । वः । पुरा । स्तोमेभिः । वृक्त-बर्हिषः । शर्धान् । ऋतस्य । जिन्वथ

8.7.22

सम् । ओं इति । त्ये । महतीः । अपः । सम् । क्षोणी । सम् । ओं इति । सूर्यम् । सम् । वज्रम् । पर्व-शः । दधुः

8.7.23

वि । वृत्रम् । पर्व-शः । ययुः । वि । पर्वतान् । अराजिनः । चक्राणाः । वृष्णि । पैंस्यम्

8.7.24

अनु । त्रितस्य । युध्यतः । शुष्मम् । आवन् । उत । क्रतुम् । अनु । इन्द्रम् । वृत्र-तूर्ये

8.7.25

विद्युत्-हस्ताः । अभि-द्यवः । शिप्राः । शीर्षन् । हिरण्ययीः । शुभ्राः । वि । अञ्जत । श्रिये

8.7.26

॥22॥.
-र्व्_5:8।23-
उसना । यत् । परावतः । उक्ष्णः । रन्ध्रम् । अयातन । द्यौः । न । चक्रदत् । भिया

8.7.27

आ । नः । मखस्य । दावने । अश्वैः । हिरण्यपाणि-भिः । देवासः । उप । गन्तन

8.7.28

यत् । एषाम् । पृषतीः । रथे । प्रष्टिः । वहति । रोहितः । यान्ति । शुभ्राः । रिणन् । अपः

8.7.29

सु-सोमे । शर्यणावति । आर्जीके । पस्त्य-वति । ययुः । नि-चक्रया । नरः

8.7.30

कदा । गच्छाथ । मरुतः । इत्था । विप्रम् । हवमानम् । मार्डीकेभिः । नाधमानम्

8.7.31

॥23॥.
-र्व्_5:8।24-
कत् । ह । नूनम् । कध-प्रियः । यत् । इन्द्रम् । अजहातन । कः । वः । सखि-त्वे । ओहते

8.7.32

सहो इति । सु । नः । वज्र-हस्तैः । कण्वासः । अग्निम् । मरुत्-भिः । स्तुषे । हिरण्य-वाशीभिः

8.7.33

ओ इति । सु । वृष्णः । प्र-यज्यून् । आ । नव्यसे । सुविताय । ववृत्याम् । चित्र-वाजान्

8.7.34

गिरयः । चित् । नि । जिहते । पर्शानासः । मन्यमानाः । पर्वताः । चित् । नि । येमि रे

8.7.35

आ । अक्ष्ण-यावानः । वहन्ति । अन्तरिक्षेण । पततः । धातारः । स्तुवते । वयः

8.7.36

अग्निः । हि । जानि । पूर्व्यः । छन्दः । न । सूरः । अर्चिषा । ते । भानु-भिः । वि । तस्थ् इरे

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc