ऋग्वेदसंहिता, पदपाठ · अध्याय 8.78
॥30॥.
-र्व्_6:5।31-
(र्व्_8,78)
पुरोळाशम् । नः । अन्धसः । इन्द्र । सहस्रम् । आ । भर । शता । च । शूर । गोनाम्
आ । नः । भर । वि-अञ्जनम् । गाम् । अश्वम् । अभि-अञ्जनम् । सचा । मना । हिरण्यया
उत । नः । कर्ण-शोभना । पुरूणि । धृष्णो
इति । आ । भर । त्वम् । हि । शृण्विषे । वसो इति
नकीम् । वृधीकः । इन्द्र । ते । न । सु-साः । न । सु-दाः । उत । न । अन्यः । त्वत् । शूर । वाघतः
नकीम् । इन्द्रः । नि-कर्तवे । न । शक्रः । परि-शक्तवे । विश्वम् । शृणोति । पश्यति
॥31॥.
-र्व्_6:5।32-
सः । मन्युम् । मर्त्यानाम् । अदब्धः । नि । चिकीषते । पुरा । निदः । चिकीषते
क्रत्वः । इत् । पूर्णम् । उदरम् । तुरस्य । अस्ति । विधतः । वृत्र-घ्नः । सोम-पाव्नः
त्वे इति । वसूनि । सम्-गता । विश्वा । च । सोम । सौभगा । सु-दातु । अपरि-ह्वृता
त्वाम् । इत् । यव-युः । मम । कामः । गव्युः । हिरण्ययुः । त्वाम् । अश्व-युः । आ । ईषते
तव । इत् । इन्द्र । अहम् । आशसा । हस्ते । दात्रम् । चन । आ । ददे । दिनस्य । वा । मघ-वन् । सम्-भृतस्य । वा । पूर्धि । यवस्य । काशिना
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0