ऋग्वेदसंहिता, पदपाठ · अध्याय 8.77
॥28॥.
-र्व्_6:5।29-
(र्व्_8,77)
जज्ञानः । नु । शत-क्रतुः । वि । पृच्छत् । इति । मातरम् । के । उग्राः । के । ह । शृण्विरे
आत् । ईम् । शवसी । अब्रवीत् । और्ण-वाभम् । अहीशुवम् । ते । पुत्र । सन्तु । निः-तुरः
सम् । इत् । तान् । वृत्र-हा । अखिदत् । खे । अरान्-इव । खेदया । प्र-वृद्धः । दस्युहा । अभवत्
एकया । प्रति-धा । अपिबत् । साकम् । सरांसि । त्रिंशतम् । इन्द्रः । सोमस्य । काणुका
अभि । गन्धर्वम् । अतृणत् । अबुध्नेषु । रजः-सु । आ । इन्द्रः । ब्रह्म-भ्यः । इत् । वृधे
॥29॥.
-र्व्_6:5।30-
निः । अविध्यत् । गिरि-भ्यः । आ । धारयत् । पक्वम् । ओदनम् । इन्द्रः । बुन्दम् । सु-आततम्
शत-ब्रध्नः । इषुः । तव । सहस्र-पर्णः । एकः । इत् । यम् । इन्द्र । चकृषे । युजम्
तेन । स्तोतृ-भ्यः । आ । भर । नृ-भ्यः । नारि-भ्यः । अत्तवे । सद्यः । जातः । ऋभु-स्थिर
एता । च्यौत्नानि । ते । कृता । वर्षिष्ठानि । परीणसा । हृदा । वीळु । अधारयः
विश्वा । इत् । ता । विष्णुः । आ । अभरत् । उरु-क्रमः । त्वाइषितः । शतम् । महिषान् । क्षीर-पाकम् । ओदनम् । वराहम् । इन्द्रः । एमुषम्
तुवि-क्षम् । ते । सु-कृतम् । सु-मयम् । धनुः । साधुः । बुन्दः । हिरण्ययः । उभा । ते । बाहू इति । रण्या । सु-संस्कृता । ऋदु-पे । चित् । ऋदु-वृधा
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0