भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 8.76

8.76.1

॥26॥.
-र्व्_6:5।27-
(र्व्_8,76)
इमम् । नु । मायिनम् । हुवे । इन्द्रम् । ईशानम् । ओजसा । मरुत्वन्तम् । न वृञ्जसे

8.76.2

अयम् । इन्द्रः । मरुत्-सखा । वि । वृत्रस्य । अभिनत् । शिरः । वज्रेण । शत-पर्वणा

8.76.3

ववृधानः । मरुत्-सखा । इन्द्रः । वि । वृत्रम् । ऐरयत् । सृजन् । समुद्रियाः । अपः

8.76.4

अयम् । ह । येन । वै । इदम् । स्वः । मरुत्वता । जितम् । इन्द्रेण । सोम-पीतये

8.76.5

मरुत्वन्तम् । ऋजीषिणम् । ओजस्वन्तम् । वि-रप्शिनम् । इन्द्रम् । गीः-भिः । हवामहे

8.76.6

इन्द्रम् । प्रत्नेन । मन्मना । मरुत्वन्तम् । हवामहे । अस्य । सोमस्य । पीतये

8.76.7

॥27॥.
-र्व्_6:5।28-
मरुत्वान् । इन्द्र । मीढवः । पिब । सोमम् । शतक्रतो इतिशत-क्रतो । अस्मिन् । यज्ञे । पुरु-स्तुत

8.76.8

तुभ्य । इत् । इन्द्र । मरुत्वते । सुताः । सोमासः । अद्रि-वः । हृदा । हूयन्ते । उक्थिनः

8.76.9

पिब । इत् । इन्द्र । मरुत्-सखा । सुतम् । सोमम् । दिविष्टिषु । वज्रम् । शिशानः । ओजसा

8.76.10

उत्-तिष्ठन् । ओजसा । सह । पीत्वी । शिप्रेइति । अवेपयः । सोमम् । इन्द्र । चमू इति । सुतम्

8.76.11

अनु । त्वा । रोदसी इति । उभे
इति । क्रक्षमाणम् । अकृपेताम् । इन्द्र । यत् । दस्यु-हा । अभवः

8.76.12

वाचम् । अष्टापदीम् । अहम् । नव-स्रक्तिम् । ऋत-स्पृशम् । इन्द्रात् । परि । तन्वम् । ममे

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc