ऋग्वेदसंहिता, पदपाठ · अध्याय 8.75
॥23॥.
-र्व्_6:5।24-
(र्व्_8,75)
युक्ष्व । हि । देव-हूतमान् । अश्वान् । अग्ने । रथीः-इव । नि । होता । पूर्व्यः । सदः
उत । नः । देव । देवान् । अच्छ । वोचः । विदुः-तरः । श्रत् । विश्वा । वार्या । कृधि
त्वम् । ह । यत् । यविष्ठ्य । सहसः । सूनो इति । आहुत । ऋत-वा । यज्ञियः । भुवः
अयम् । अग्निः । सहस्रिणः । वाजस्य । शतिनः । पतिः । मूर्धा । कविः । रयीणाम्
तम् । नेमिम् । ऋभवः । यथा । आ । नमस्व । सहूति-भिः । नेदीयः । यज्ञम् । अङ्गिरः
॥24॥.
-र्व्_6:5।25-
तस्मै । नूनम् । अभि-द्यवे । वाचा । वि-रूप । नित्यया । वृष्णे । चोदस्व । सु-स्तुति म्
कम् । ओं इति । स्वित् । अस्य । सेनया । अग्नेः । अपाक-चक्षसः । पणिम् । गोषु । स्तरामहे
मा । नः । देवानाम् । विशः । प्रस्नातीः-इव । उस्राः । कृशम् । न । हासुः । अघ्न्याः
मा । नः । समस्य । दुः-ध्यः । परि-द्वेषसः । अंहतिः । ऊर्मिः । न । नावम् । आ । वधीत्
नमः । ते । अग्ने । ओजसे । गृणन्ति । देव । कृष्टयः । अमैः । अमित्रम् । अर्दय
॥25॥.
-र्व्_6:5।26-
कुवित् । सु । नः । गो--इष्टये । अग्ने । सम्-वेषिषः । रयिम् । उरु-कृत् । उरु । नः । कृधि
मा । नः । अस्मिन् । महाधने । परा । वर्क । भार-भृत् । यथा । सम्-वर्गम् । सम् । रयिम् । जय
अन्यम् । अस्मत् । भियै । इयम् । अग्ने । सिसक्तु । दुच्छुना । वर्ध । नः । अम-वत् । शवः
यस्य । अजुषत् । नमस्विनः । शमीम् । अदुः-मखस्य । वा । तम् । घ । इत् । अग्निः । वृधा । अवति
परस्याः । अधि । सम्-वतः । अवरान् । अभि । आ । तर । यत्र । अहम् । अस्मि । तान् । अव
विद्म । हि । ते । पुरा । वयम् । अग्ने । पितुः । यथा । अवसः । अध । ते । सुम्नम् । ईमहे
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0