ऋग्वेदसंहिता, पदपाठ · अध्याय 8.74
॥20॥.
-र्व्_6:5।21-
(र्व्_8,74)
विशः-विसः । वः । अतिथिम् । वाज-यन्तः । पुरु-प्रियम् । अग्निम् । वः । दुयर्म् । वचः । स्तुषे । शूषस्य । मन्म-भिः
यम् । जनासः । हविष्मन्तः । मित्रम् । न । सर्पिः-आसुतिम् । प्र-शंसन्ति । प्रशस्ति-भिः
पन्यासम् । जात-वेदसम् । यः । देव-ताति । उत्-यता । हव्यानि । ऐरयत् । दिवि
आ । अगन्म । वृत्रहन्-तमम् । ज्येष्ठम् । अग्निम् । आनवम् । यस्य । श्रुतर्वा । बृहन् । आर्क्षः । अनीके । एधते
अमृतम् । जात-वेदसम् । तिरः । तमांसि । दर्शतम् । घृत-आहवनम् । ईड्यम्
॥21॥.
-र्व्_6:5।22-
स-बाधः । यम् । जनाः । इमे । अग्निम् । हव्येभिः । ईळते । जुह्वानासः । यत-स्रुचः
इयम् । ते । नव्यसी । मतिः । अग्ने । अधायि । अस्मत् । आ । मन्द्र । सु-जात । सुक्रतो इतिसु-क्रतो । अमूर । दस्म । अतिथे
सा । ते । अग्ने । शम्-तमा । चनिष्ठा । भवतु । प्रिया । तया । वर्धस्व । सु-स्तुतः
सा । द्युम्नैः । द्युम्निनी । बृहत् । उप-उप । श्रवसि । श्रवः । दधीत । वृत्र-तूर्ये
अश्वम् । इत् । गाम् । रथ-प्राम् । त्वेषम् । इन्द्रम् । न । सत्-पतिम् । यस्य । श्रवांसि । तूर्वथ । पन्यम्-पन्यम् । च । कृष्टयः
॥22॥.
-र्व्_6:5।23-
यम् । त्वा । गोपवनः । गिरा । चनिष्ठत् । अग्ने । अङ्गिरः । सः । पावक । श्रुधि । हवम्
यम् । त्वा । जनासः । ईळते । स-बाधः । वाज-सातये । सः । बोधि । वृत्र-तूर्ये
अहम् । हुवानः । आर्क्षे । श्रुतर्वणि । मद-च्युति । शर्धांसि-इव । स्तुकाविनाम् । मृक्षा । शीर्षा । चतुर्णाम्
माम् । चत्वारः । आशवः । शविष्ठस्य । द्रवित्नवः । सु-रथासः । अभि । प्रयः । वक्षन् । वयः । न । तुग्र्यम्
सत्यम् । इत् । त्वा । महे--नदि । परुष्णि । अव । देदिशम् । न । ईम् । आपः । अश्व-दातरः । शविष्ठात् । अस्ति । मर्त्यः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0