ऋग्वेदसंहिता, पदपाठ · अध्याय 8.73
॥17॥.
-र्व्_6:5।18-
(र्व्_8,73)
उत् । ईराथाम् । ऋत-यते । युञ्जाथाम् । अश्विना । रथम् । अन्ति । सत् । भूतु । वाम् । अवः
निमिषः । चित् । जवीयसा । रथेन । आ । यातम् । अश्विना । अन्ति । सत् । भूतु । वाम् । अवः
उप । स्तृणीतम् । अत्रये । हिमेन । घर्मम् । अश्विना । अन्ति । सत् । भूतु । वाम् । अवः
कुह । स्थः । कुह । जग्मथुः । कुह । श्येनाइव । पेतथुः । अन्ति । सत् । भूतु । वाम् । अवः
यत् । अद्य । कर्हि । कर्हि । चित् । शुश्रूयातम् । इमम् । हवम् । अन्ति । सत् । भूतु । वाम् । अवः
॥18॥.
-र्व्_6:5।19-
अश्विना । याम-हूतमा । नेदिष्ठम् । यामि । आप्यम् । अन्ति । सत् । भूतु । वाम् । अवः
अवन्तम् । अत्रये । गृहम् । कृणुतम् । युवम् । अश्विना । अन्ति । सत् । भूतु । वाम् । अवः
वरेथे । अग्निम् । आतपः । वदते । वल्गु । अत्रये । अन्ति । सत् । भूतु । वाम् । अवः
प्र । सप्त-वध्रिः । आशसा । धाराम् । अग्नेः । अशायत । अन्ति । सत् । भूतु । वाम् । अवः
इह । आ । गतम् । वृषण्-वसूइतिवृषण्-वसू । शृणुतम् । मे । इमम् । हवम् । अन्ति । सत् । भूतु । वाम् । अवः
॥19॥.
-र्व्_6:5।20-
किम् । इदम् । वाम् । पुराण-वत् । जरतोः-इव । शस्यते । अन्ति । सत् । भूतु । वाम् । अवः
समानम् । वाम् । स-जात्यम् । समानः । बन्धुः । अश्विना । अन्ति । सत् । भूतु । वाम् । अवः
यः । वाम् । रजांसि । अश्विना । रथः । वि-याति । रोदसी इति । अन्ति । सत् । भूतु । वाम् । अवः
आ । नः । गव्येभिः । अश्व्यैः । सहस्रैः । उप । गच्छतम् । अन्ति । सत् । भूतु । वाम् । अवः
मा । नः । गव्येभिः । अश्व्यैः । सहस्रेभिः । अति । ख्यतम् । अन्ति । सत् । भूतु । वाम् । अवः
अरुण-प्सुः । उषाः । अभूत् । अकः । ज्योतिः । ऋत-वरी । अन्ति । सत् । भूतु । वाम् । अवः
अश्विना । सु । वि-चाकशत् । वृक्षम् । परशुमान्-इव । अन्ति । सत् । भूतु । वाम् । अवः
पुरम् । न । धृष्णो इति । आ । रुज । कृष्णया । बाधितः । विशा । अन्ति । सत् । भूतु । वाम् । अवः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0