ऋग्वेदसंहिता, पदपाठ · अध्याय 8.72
॥13॥.
-र्व्_6:5।14-
(र्व्_8,72)
हविः । कृणुध्वम् । आ । गमत् । अध्वर्युः । वनते । पुनरिति । विद्वान् । अस्य । प्र-शासनम्
नि । तिग्मम् । अभि । अंशुम् । सीदत् । होता । मनौ । अधि । जुषाणः । अस्य । सख्यम्
अन्तः । इच्छन्ति । तम् । जने । रुद्रम् । परः । मनीषया । गृभ्णन्ति । जिह्वया । ससम्
जामि । अतीतपे । धनुः । वयः-धाः । अरुहत् । वनम् । दृषदम् । जिह्वया । आ । अवधीत्
चरन् । वत्सः । रुशन् । इह । नि-दातारम् । न । विन्दते । वेति । स्तोतव्र् । अम्ब्यम्
॥14॥.
-र्व्_6:5।15-
उतो इति । नु । अस्य । यत् । महत् । अश्व-वत् । योजनम् । बृहत् । दामा । रथस्य । ददृशे
दुहन्ति । सप्त । एकाम् । उप । द्वा । पञ्च । सृजतः । तीर्थे । सिन्धोः । अधि । स्वरे
आ । दश-भिः । विवस्वतः । इन्द्रः । कोशम् । अचुच्यवीत् । खेदया । त्रि-वृता । दिवः
परि । त्रि-धातुः । अध्वरम् । जूर्णिः । एति । नवीयसी । मध्वा । होतारः । अञ्जते
सिञ्चन्ति । नमसा । अवतम् । उच्चाचक्रम् । परि-ज्मानम् । नीचीन-बारम् । अक्षितम्
॥15॥.
-र्व्_6:5।16-
अभि-आरम् । इत् । अद्रयः । नि-सिक्तम् । पुष्करे । मधु । अवतस्य । वि-सर्जने
गावः । उप । अवत । अवतम् । मही इति । यज्ञस्य । रप्सुदा । उभा । कर्णा । हिरण्यया
आ । सुते । सिञ्चत । श्रियम् । रोदस्योः । अभि-श्रियम् । रसा । दधीत । वृषभम्
ते । जानत । स्वम् । ओक्यम् । सम् । वत्सासः । न । मातृ-भिः । मिथः । नसन्त । जामि-भिः
उप । स्रक्वेषु । बप्सतः । कृण्वते । धरुणम् । दिवि । इन्द्रे । अग्ना । नमः । स्वः
॥16॥.
-र्व्_6:5।17-
अधुक्षत् । पिप्युषीम् । इषम् । ऊर्जम् । सप्त-पदीम् । अरिः । सूर्यस्य । सप्त । रश्मि-भिः
सोमस्य । मित्रावरुणा । उत्-इता । सूरे । आ । ददे । तत् । आतुरस्य । भेषजम्
उतो
इति । नु । अस्य । यत् । पदम् । हर्यतस्य । नि-धान्यम् । परि । द्याम् । जिह्वया । अतनत्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0