भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 8.71

8.71.1

॥10॥.
-र्व्_6:5।11-
(र्व्_8,71)
त्वम् । नः । अग्ने । महः-भिः । पाहि । विश्वस्याः । अरातेः । उत । द्विषः । मर्त्यस्य

8.71.2

नहि । मन्युः । पौरुषेयः । ईशे । हि । वः । प्रिय-जात । त्वम् । इत् । असि । क्षपावान्

8.71.3

सः । नः । विश्वेभिः । देवेभिः । ऊर्जः । नपात् । भद्र-शोचे । रयिम् । देहि । विश्व-वारम्

8.71.4

न । तम् । अग्ने । अरातयः । मर्तम् । युवन्त । रायः । यम् । त्रायसे । दाश्वांसम्

8.71.5

यम् । त्वम् । विप्र । मेध-सातौ । अग्ने । हिनोषि । धनाय । सः । तव । ऊती । गोषु । गन्ता

8.71.6

॥11॥.
-र्व्_6:5।12-
त्वम् । रयिम् । पुरु-वीरम् । अग्ने । दाशुषे । मर्ताय । प्र । नः । नय । वस्यः । अच्छ

8.71.7

उरुष्य । णः । मा । परा । दाः । अघ-यते । जत-वेदः । दुः-आध्ये । मर्ताय

8.71.8

अग्ने । माकिः । ते । देवस्य । रातिम् । अदेवः । युयोत । त्वम् । ईशिषे । वसूनाम्

8.71.9

सः । नः । वस्वः । उप । मासि । ऊर्जः । नपात् । माहिनस्य । सखे । वसो इति । जरितृ-भ्यः

8.71.10

अच्छ । नः । शीर-शोचिषम् । गिरः । यन्तु । दर्शतम् । अच्छ । यज्ञासः । नमसा । पुरु-वसुम् । पुरु-प्रशस्तम् । ऊतये

8.71.11

॥12॥.
-र्व्_6:5।13-
अग्निम् । सूनुम् । सहसः । जात-वेदसम् । दानाय । वार्याणाम् । द्विता । यः । भूत् । अमृतः । मर्त्येषु । आ । होता । मन्द्र-तमः । विशि

8.71.12

अग्निम् । वः । देव-यज्यया । अग्निम् । प्र-यति । अध्वरे । अग्निम् । धीषु । प्रथमम् । अग्निम् । अर्वति । अग्निम् । क्षैत्राय । साधसे

8.71.13

अग्निः । इषाम् । सख्ये । ददातु । नः । ईशे । यः । वार्याणाम् । अग्निम् । तोके । तनये । शश्वत् । ईमहे । वसुम् । सन्तम् । तनू-पाम्

8.71.14

अग्निम् । ईळिष्व । अवसे । गाथाभिः । शीर-शोचिषम् । अग्निम् । राये । पुरु-मीळ्ह । श्रुतम् । नरः । अग्निम् । सु-दीतये । छर्धिः

8.71.15

अग्निम् । द्वेषः । योतवै । नः । गृणीमसि । अग्निम् । शम् । योः । च । दातवे । विश्वासु । विक्षु । अविताइव । हव्यः । भुवत् । वस्तुः । ऋषूणाम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc