भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 8.70

8.70.1

॥7॥.
-र्व्_6:5।8-
(र्व्_8,70)
यः । राजा । चर्षणीनाम् । याता । रथेभिः । अध्रि-गुः । विश्वासाम् । तरुता । पृतनानाम् । ज्येष्ठः । यः । वृत्र-हा । गृणे

8.70.2

इन्द्रम् । तम् । शुम्भ । पुरु-हन्मन् । अवसे । यस्य । द्विता । वि-धर्तरि । हस्ताय । वज्रः । प्रति । धायि । दर्शतः । महः । दिवे । न । सूर्यः

8.70.3

नकिः । तम् । कर्मणा । नशत् । यः । चकार । सदावृधम् । इन्द्रम् । न । यज्ञैः । विश्व-गूर्तम् । ऋभ्वसम् । अधृष्टम् । धृष्णु-ओजसम्

8.70.4

अषाळ्हम् । उग्रम् । पृतनासु । ससहिम् । यस्मिन् । महीः । उरु-ज्रयः । सम् । धेनवः । जायमाने । अनोनवुः । द्यावः । क्षामः । अनोनवुः

8.70.5

यत् । द्यावः । इन्द्र । ते । शतम् । शतम् । भूमीः । उत । स्युरितिस्युः । न । त्वा । वज्र् इन् । सहस्रम् । सूर्याः । अनु । न । जातम् । अष्ट । रोदसी इति

8.70.6

॥8॥.
-र्व्_6:5।9-
आ । पप्राथ । महिना । वृष्ण्या । वृषन् । विश्वा । शविष्ठ । शवसा । अस्मान् । अव । मघ-वन् । गो--मति । व्रजे । वज्रिन् । चित्राभिः । ऊति-भिः

8.70.7

न । सीम् । अदेवः । आपत् । इषम् । दीर्घायो इतिदीर्घ-आयो । मर्त्यः । एत-ग्वा । चित् । यः । एतशा । युयोजते । हरी इति । इन्द्रः । युयोजते

8.70.8

तम् । वः । महः । महाय्यम् । इन्द्रम् । दानाय । सक्षणिम् । यः । गाधेषु । यः । आअरणेषु । हव्यः । वाजेषु । अस्ति । हव्यः

8.70.9

उत् । ओं इति । सु । णः । वसो इति । महे । मृशस्व । शूर । राधसे । उत् । ओं इति । सु । मह्यै । मघ-वन् । मघत्तये । उत् । इन्द्र । श्रवसे । महे

8.70.10

त्वम् । नः । इन्द्र । ऋत-युः । त्वानिदः । नि । तृम्पसि । मध्ये । वसिष्व । तुवि-नृम्ण । ऊर्वोः । नि । दासम् । शिश्नथः । हथैः

8.70.11

॥9॥.
-र्व्_6:5।10-
अन्य-व्रतम् । अमानुषम् । अयज्वानम् । अदेव-युम् । अव । स्वः । सखा । दुधुवीत । पर्वतः । सु-घ्नाय । दस्युम् । पर्वतः

8.70.12

त्वम् । नः । इन्द्र । आसाम् । हस्ते । शविष्ठ । दावने । धानानाम् । न । सम् । गृभाय । अस्म-युः । द्विः । सम् । गृभाय । अस्म-युः

8.70.13

सखायः । क्रतुम् । इच्छत । कथा । राधाम । शरस्य । उप-स्तुतिम् । भोजः । सूरिः । यः । अह्रयः

8.70.14

भूरि-भिः । समह । ऋषि-भिः । बर्हिष्मत्-भिः । स्तविष्यसे । यत् । इत्थम् । एकम् । एकम् । इत् । शर । वत्सान् । पराददः

8.70.15

कर्ण-गृह्य । मघ-वा । शौर-देव्यः । वत्सम् । नः । त्रि-भ्यः । आ । अनयत् । अजाम् । सूरिः । न । धातवे

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc