ऋग्वेदसंहिता, पदपाठ · अध्याय 8.69
॥4॥.
-र्व्_6:5।5-
(र्व्_8,69)
प्र-प्र । वः । त्रि-स्तुभम् । इषम् । मन्दत्-वीराय । इन्दवे । धिया । वः । मेध-सातये । पुरम्-ध्या । आ । विवासति
नदम् । वः । ओदतीनाम् । नदम् । योयुवतीनाम् । पतिम् । वः । अघ्न्यानाम् । धेनूनाम् । इषुध्यसि
ताः । अस्य । सूद-दोहसः । सोमम् । श्रीणन्ति । पृश्नयः । जन्मन् । देवानाम् । व् इशः । त्रिषु । आ । रोचने । दिवः
अभि । प्र । गो--पतिम् । गिरा । इन्द्रम् । अर्च । यथा । विदे । सूनुम् । सत्यस्य । सत्-पतिम्
आ । हरयः । ससृज्रिरे । अरुषीः । अधि । बर्हिषि । यत्र । अभि । सम्-नवामहे
॥5॥.
-र्व्_6:5।6-
इन्द्राय । गावः । आशिरम् । दुदुह्रे । वज्रिणे । मधु । यत् । सीम् । उप-ह्वरे । विदत्
उत् । यत् । ब्रध्नस्य । विष्टपम् । गृहम् । इन्द्रः । च । गन्वहि । मध्वः । पीत्वा । सचेवहि । त्रिः । सप्त । सख्युः । पदे
अर्चत । प्र । अर्चत । प्रिय-मेधासः । अर्चत । अर्चन्तु । पुत्रकाः । उत । पुरम् । न । धृष्णु । अर्चत
अव । स्वराति । गर्गरः । गोधा । परि । सनिस्वनत् । पिङ्गा । परि । चनिस्कदत् । इन्द्राय । ब्रह्म । उत्-यतम्
आ । यत् । पतन्ति । एन्यः । सु-दुघाः । अनप-स्फुरः । अप-स्फुरम् । गृभायत । सोमम् । इन्द्राय । पातवे
॥6॥.
-र्व्_6:5।7-
अपात् । इन्द्रः । अपात् । अग्निः । विश्वे । देवाः । अमत्सत । वरुणः । इत् । इह । क्षयत् । तम् । आपः । अभि । अनूषत । वत्सम् । संशिश्वरीः-इव
सु-देवः । असि । वरुण । यस्य । ते । सप्त । सिन्धवः । अनु-क्षरन्ति । काकुदम् । सूर्म्यम् । सुषिराम्-इव
यः । व्यतीन् । अफाणयत् । सु-युक्तान् । उप । दाशुषे । तक्वः । नेता । तत् । इत् । वपुः । उप-मा । यः । अमुच्यत
अति । इत् । ओं इति । शक्रः । अहते । इन्द्रः । विश्वाः । अति । द्विषः । भिनत् । कनीनः । ओदनम् । पच्यमानम् । परः । गिरा
अर्भकः । न । कुमारकः । अधि । तिष्ठत् । नवम् । रथम् । सः । पक्षत् । महिषम् । मृगम् । पित्रे । मात्रे । विभु-क्रतुम्
आ । तु । सु-शिप्र । दम्-पते । रथम् । तिष्ठ । हिरण्ययम् । अध । द्युक्षम् । सचेवहि । सहस्र-पादम् । अरुषम् । स्वस्ति-गाम् । अनेहसम्
तम् । घ । ईम् । इत्था । नमस्विनः । उप । स्व-राजम् । आसते । अर्थम् । चित् । अस्य । सु-धितम् । यत् । एतवे । आवर्तयन्ति । दावने
अनु । प्रत्नस्य । ओकसः । प्रिय-मेधासः । एषाम् । पूर्वाम् । अनु । प्र-यति म् । वृक्त-बर्हिषः । हित-प्रयसः । आशत
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0