भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 8.68

8.68.1

॥54॥.
-र्व्_6:5।1-
(र्व्_8,68)
आ । त्वा । रथम् । यथा । ऊतये । सुम्नाय । वर्तयामसि । तुवि-कूर्मिम् । ऋति-सहम् । इन्द्र । शविष्ठ । सत्-पते

8.68.2

तुवि-शुष्म । तुविक्रतो इतितुवि-क्रतो । शची-वः । विश्वया । मते । आ । पप्राथ । महि-त्वना

8.68.3

यस्य । ते । महिना । महः । परि । ज्मायन्तम् । ईयतुः । हस्ता । वज्रम् । हिरण्ययम्

8.68.4

विश्वानरस्य । वः । पतिम् । अनानतस्य । शवसः । एवैः । च । चर्षणीनाम् । ऊती । हुवे । रथानाम्

8.68.5

अभिष्टये । सदावृधम् । स्वः-मीळ्हेषु । यम् । नरः । नाना । हवन्ते । ऊतये

8.68.6

॥1॥.
-र्व्_6:5।2-
परः-मात्रम् । ऋचीषमम् । इन्द्रम् । उग्रम् । सु-राधसम् । ईशानम् । चित् । वसूनाम्

8.68.7

तम्-तम् । इत् । राधसे । महे । इन्द्रम् । चोदामि । पीतये । यः । पूर्व्याम् । अनु-स्तुत् इम् । ईशे । कृष्टीनाम् । नृतुः

8.68.8

न । यस्य । ते । शवसान । सख्यम् । आनंश । मर्त्यः । नकिः । शवांसि । ते । नशत्

8.68.9

त्वाऊतासः । त्वा । युजा । अप्-सु । सूर्ये । महत् । धनम् । जयेम । पृत्-सु । वज्रि-वः

8.68.10

तम् । त्वा । यज्ञेभिः । ईमहे । तम् । गीः-भिः । गिर्वणः-तम । इन्द्र । यथा । चित् । आविथ । वाजेषु । पुरु-माय्यम्

8.68.11

॥2॥.
-र्व्_6:5।3-
यस्य । ते । स्वादु । सख्यम् । स्वाद्वी । प्र-नीतिः । अद्रि-वः । यज्ञः । वितन्तसाय्यः

8.68.12

उरु । नः । तन्वे । तने । उरु । क्षयाय । नः । कृधि । उरु । नः । यन्धि । जीवसे

8.68.13

उरुम् । नृ-भ्यः । उरुम् । गवे । उरुम् । रथाय । पन्थाम् । देव-वीतिम् । मनामहे

8.68.14

उप । मा । षट् । द्वाद्वा । नरः । सोमस्य । हर्ष्या । तिष्ठन्ति । स्वादु-रातयः

8.68.15

ऋज्रौ । इन्द्रोते । आ । ददे । हरी इति । ऋक्षस्य । सूनवि । आश्व-मेधस्य । रोहिता

8.68.16

॥3॥.
-र्व्_6:5।4-
सु-रथान् । आतिथि-ग्वे । सु-अभीशून् । आर्क्षे । आश्व-मेधे । सु-पेशसः

8.68.17

षट् । अश्वान् । आतिथि-ग्वे । इन्द्रोते । वधू-मतः । सचा । पूत-क्रतौ । सनम्

8.68.18

आ । एषु । चेतत् । वृषण्-वती । अन्तः । ऋज्रेषु । अरुषी । सु-अभीशुः । कशावती

8.68.19

न । युष्मे इति । वाज-बन्धवः । निनित्सुः । चन । मर्त्यः । अवद्यम् । अधि । दीधरत्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc