भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 8.67

8.67.1

॥50॥.
-र्व्_6:4।51-
(र्व्_8,67)
त्यान् । नु । क्षत्रियान् । अवः । आदित्यान् । याचिषामहे । सु-मृळीकान् । अभिष्टये

8.67.2

मित्रः । नः । अति । अंहतिम् । वरुणः । पर्षत् । अर्यमा । आदित्यासः । यथा । विदुः

8.67.3

तेषाम् । हि । चित्रम् । उक्थ्यम् । वरूथम् । अस्ति । दाशुषे । आदित्यानाम् । अरम्-कृते

8.67.4

महि । वः । महताम् । अवः । वरुण । मित्र । अर्यमन् । अवांसि । आ । वृणीमहे

8.67.5

जीवान् । नः । अभि । धेतन । आदित्यासः । पुरा । हथात् । कत् । ह । स्थ । हवन-श्रुतः

8.67.6

॥51॥.
-र्व्_6:4।52-
यत् । वः । श्रान्ताय । सुन्वते । वरूथम् । अस्ति । यत् । छर्दिः । तेन । नः । अधि । वोचत

8.67.7

अस्ति । देवाः । अंहोः । उरु । अस्ति । रत्नम् । अनागसः । आदित्याः । अद्भुत-एनसः

8.67.8

मा । नः । सेतुः । सिसेत् । अयम् । महे । वृणक्तु । नः । परि । इन्द्रः । इत् । हि । श्रुतः । वशी

8.67.9

मा । नः । मृचा । रिपूणाम् । वृजिनानाम् । अविष्यवः । देवाः । अभि । प्र । मृक्षत

8.67.10

उत । त्वाम् । अदिते । महि । अहम् । देवि । उप । ब्रुवे । सु-मृळीकाम् । अभिष्टये

8.67.11

॥52॥.
-र्व्_6:4।53-
पर्षि । दीने । गभीरे । आ । उग्र-पुत्रे । जिघांसतः । माकिः । तोकस्य । नः । रिषत्

8.67.12

अनेहः । नः । उरु-व्रजे । उरूचि । वि । प्र-सर्तवे । कृधि । तोकाय । जीवसे

8.67.13

ये । मूर्धानः । क्षितीनाम् । अदब्धासः । स्व-यशसः । व्रता । रक्षन्ते । अद्रुहः

8.67.14

ते । नः । आस्नः । वृकाणाम् । आदित्यासः । मुमोचत । स्तेनम् । बद्धम्-इव । अदिते

8.67.15

अपो इति । सु । नः । इयम् । शरुः । आदित्याः । अप । दुः-मतिः । अस्मत् । एतु । अजघ्नुषी

8.67.16

॥53॥.
-र्व्_6:4।54-
शश्वत् । हि । वः । सु-दानवः । आदित्याः । ऊति-भिः । वयम् । पुरा । नूनम् । बुभुज्महे

8.67.17

शश्वन्तम् । हि । प्र-चेतसः । प्रति-यन्तम् । चित् । एनसः । देवाः । कृणुथ । जीवसे

8.67.18

तत् । सु । नः । नव्यम् । सन्यसे । आदित्याः । यत् । मुमोचति । बन्धात् । बद्धम्-इव । अदिते

8.67.19

न । अस्माकम् । अस्ति । तत् । तरः । आदित्यासः । अति-स्कदे । यूयम् । अस्मभ्यम् । मृळत

8.67.20

मा । नः । हेतिः । विवस्वतः । आदित्याः । कृत्रिमा । शरुः । पुरा । नु । जरसः । वधीत्

8.67.21

वि । सु । द्वेषः । वि । अंहतिम् । आदित्यासः । वि । सम्-हितम् । विष्वक् । वि । वृहत । रपः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc