ऋग्वेदसंहिता, पदपाठ · अध्याय 8.66
॥47॥.
-र्व्_6:4।48-
(र्व्_8,66)
तरः-भिः । वः । विदत्-वसुम् । इन्द्रम् । स-बाधः । ऊतये । बृहत् । गायन्तः । सुत-सोमे । अध्वरे । हुवे । भरम् । न । कारिणम्
न । यम् । दुध्राः । वरन्ते । न । स्थिराः । मुरः । मदे । सु-शिप्रम् । अन्धसः । यः । आदृत्य । शशमानाय । सुन्वते । दाता । जरित्रे । उक्थ्यम्
यः । शक्रः । मृक्षः । अश्व्यः । यः । वा । कीजः । हिरण्ययः । सः । ऊर्वस्य । रेजयति । अप-वृतिम् । इन्द्रः । गव्यस्य । वृत्र-हा
निखातम् । चित् । यः । पुरु-सम्भृतम् । वसु । उत् । इत् । वपति । दाशुषे । वज्री । सु-शि प्रः । हरि-अश्वः । इत् । करत् । इन्द्रः । क्रत्वा । यथा । वशत्
यत् । ववन्थ । पुरु-स्तुत । पुरा । चित् । शूर । नृणाम् । वयम् । तत् । ते । इन्द्र । सम् । भरामसि । यज्ञम् । उक्थम् । तुरम् । वचः
॥48॥.
-र्व्_6:4।49-
सचा । सोमेषु । पुरु-हूत । वज्रि-वः । मदाय । द्युक्ष । सोम-पाः । त्वम् । इत् । हि । ब्रह्म-कृते । काम्यम् । वसु । देष्ठः । सुन्वते । भुवः
वयम् । एनम् । इदा । ह्यः । अपीपेम । इह । वज्रिणम् । तस्मै । ओं इति । अद्य । समना । सुतम् । भर । आ । नूनम् । भूषत । श्रुते
वृकः । चित् । अस्य । वारणः । उरामथिः । आ । वयुनेषु । भूषति । सः । इमम् । नः । स्तोमम् । जुजुषाणः । आ । गहि । इन्द्र । प्र । चित्रया । धिया
कत् । ओं इति । नु । अस्य । अकृतम् । इन्द्रस्य । अस्ति । पैंस्यम् । केनो इति । नु । कम् । श्रोमतेन । न । शिश्रुवे । जनुषः । परि । वृत्र-हा
कत् । ओं
इति । महीः । अधृष्टाः । अस्य । तविषीः । कत् । ओं इति । वृत्र-घ्नः । अस्तृतम् । इन्द्रः । विश्वान् । बेक-नाटान् । अहः-दृषः । उत । क्रत्वा । पणीन् । अभि
॥49॥.
-र्व्_6:4।50-
वयम् । घ । ते । अपूर्व्या । इन्द्र । ब्रह्माणि । वृत्र-हन् । पुरु-तमासः । पुरु-हूत । वज्रि-वः । भृतिम् । न । प्र । भरामसि
पूर्वीः । चित् । हि । त्वे इति । तुवि-कूर्मिन् । आशसः । हवन्ते । इन्द्र । ऊतयः । तिरः । चित् । अर्यः । सवना । वसो इति । गहि । शविष्ठ । श्रुधि । मे । हवम्
वयम् । घ । ते । त्वे इति । इत् । ओं इति । इन्द्र । विप्राः । अपि । स्मसि । नहि । त्वत् । अन्यः । पुरु-हूत । कः । चन । मघ-वन् । अस्ति । मर्डिता
त्वम् । नः । अस्याः । अमतेः । उत । क्षुधः । अभि-शस्तेः । अव । स्पृधि । त्वम् । नः । ऊती । तव । चित्रया । धिया । शिक्ष । शचिष्ठ । गातु-वित्
सोमः । इत् । वः । सुतः । अस्तु । कलयः । मा । बिभीतन । अप । इत् । एषः ध्वस्मा । अयति । स्वयम् । घ । एषः । अप । अयति
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0