ऋग्वेदसंहिता, पदपाठ · अध्याय 8.65
॥45॥.
-र्व्_6:4।46-
(र्व्_8,65)
यत् । इन्द्र । प्राक् । अपाक् । उदक् । न्यक् । वा । हूयसे । नृ-भिः । आ । याहि । तूयम् । आशु-भिः
यत् । वा । प्र-स्रवणे । दिवः । मादयासे । स्वः-नरे । यत् । वा । समुद्रे । अन्धसः
आ । त्वा । गीः-भिः । महाम् । उरुम् । हुवे । गाम्-इव । भोजसे । इन्द्र । सोमस्य । पीतये
आ । ते । इन्द्र । महिमानम् । हरयः । देव । ते । महः । रथे । वहन्तु । बिभ्रतः
इन्द्र । गृणीषे । ओं इति । स्तुषे । महान् । उग्रः । ईशान-कृत् । आ । इहि । नः । सुतम् । पिब
सुत-वन्तः । त्वा । वयम् । प्रयस्वन्तः । हवामहे । इदम् । नः । बर्हि ः । आसदे
॥46॥.
-र्व्_6:4।47-
यत् । चित् । हि । शश्वताम् । असि । इन्द्र । साधारणः । त्वम् । तम् । त्वा । वयम् । हवामहे
इदम् । ते । सोम्यम् । मधु । अधुक्षन् । अद्रि-भिः । नरः । जुषाणः । इन्द्र । तत् । पि ब
विश्वान् । अर्यः । विपः-चितः । अति । ख्यः । तूयम् । आ । गहि । अस्मे इति । धेहि । श्रवः । बृहत्
दाता । मे । पृषतीनाम् । राजा । हिरण्य-वीनाम् । मा । देवाः । मघ-वा । रिषत्
सहस्रे । पृषतीनाम् । अधि । चन्द्रम् । बृहत् । पृथु । शुक्रम् । हिरण्यम् । आ । ददे
नपातः । दुः-गहस्य । मे । सहस्रेण । सु-राधसः । श्रवः । देवेषु । अक्रत
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0