भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 8.64

8.64.1

॥43॥.
-र्व्_6:4।44-
(र्व्_8,64)
उत् । त्वा । मन्दन्तु । स्तोमाः । कृणुष्व । राधः । अद्रि-वः । अव । ब्रह्म-द्विषः । जहि

8.64.2

पदा । पणीन् । अराधसः । नि । बाधस्व । महान् । असि । नहि । त्वा । कः । चन । प्रति

8.64.3

त्वम् । ईशिषे । सुतानाम् । इन्द्र । त्वम् । असुतानाम् । त्वम् । राजा । जनानाम्

8.64.4

आ । इहि । प्र । इहि । क्षयः । दिवि । आघोषन् । चर्षणीणाम् । आ । उभे इति । पृणासि । रोदसी इति

8.64.5

त्यम् । चित् । पर्वतम् । गिरिम् । शत-वन्तम् । सहस्रिणम् । वि । स्तोतृ-भ्यः । रुरोजिथ

8.64.6

वयम् । ओं इति । त्वा । दिवा । सुते । वयम् । नक्तम् । हवामहे । अस्माकम् । कामम् । आ । पृण

8.64.7

॥44॥.
-र्व्_6:4।45-
क्व । स्यः । वृषभः । युवा । तुवि-ग्रीवः । अनानतः । ब्रह्मा । कः । तम् । सपर्यति

8.64.8

कस्य । स्वित् । सवनम् । वृषा । जुजुष्वान् । अव । गच्छति । इन्द्रम् । कः । ओं इति । स्वित् । आ । चके

8.64.9

कम् । ते । दानाः । असक्षत । वृत्र-हन् । कम् । सु-वीर्या । उक्थे । कः । ओं इति । स्वित् । अन्तमः

8.64.10

अयम् । ते । मानुषे । जने । सोमः । पूरुषु । सूयते । तस्य । आ । इहि । प्र । द्रव । प् इब

8.64.11

अयम् । ते । शर्यणावति । सु-सोमायाम् । अधि । प्रियः । आर्जीकीये । मदिन्-तमः

8.64.12

तम् । अद्य । राधसे । महे । चारुम् । मदाय । घृष्वये । आ । इहि । ईम् । इन्द्र । द्रव । पिब

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc