भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 8.63

8.63.1

॥41॥.
-र्व्_6:4।42-
(र्व्_8,63)
सः । पूर्व्यः । महानाम् । वेनः । क्रतु-भिः । आनजे । यस्य । द्वारा । मनुः । पिता । देवेषु । धियः । आनजे

8.63.2

दिवः । मानम् । न । उत् । सदन् । सोम-पृष्ठासः । अद्रयः । उक्था । ब्रह्म । च । शंस्या

8.63.3

सः । विद्वांन् । अङ्गिरः-भ्यः । इन्द्रः । गाः । अवृणोत् । अप । स्तुषे । तत् । अस्य । पैंस्यम्

8.63.4

सः । प्रत्न-था । कवि-वृधः । इन्द्रः । वाकस्य । वक्षणिः । शिवः । अर्कस्य । होमनि । अस्म-त्रा । गन्तु । अवसे

8.63.5

आत् । ओं इति । नु । ते । अनु । क्रतुम् । स्वाहा । वरस्य । यज्यवः । श्वात्रम् । अर्काः । अनूषत । इन्द्र । गोत्रस्य । दावने

8.63.6

इन्द्रे । विश्वानि । वीर्या । कृतानि । कर्त्वानि । च । यम् । अर्काः । अध्वरम् । विदुः

8.63.7

॥42॥.
-र्व्_6:4।43-
यत् । पाञ्च-जन्यया । विशा । इन्द्रे । घोषाः । असृक्षत । अस्तृणात् । बर्हणा । विपः । अर्यः । मानस्य । सः । क्षयः

8.63.8

इयम् । ओं इति । ते । अनु-स्तुतिः । चकृषे । तानि । पैंस्या । प्र । आवः । चक्रस्य । वर्तनिम्

8.63.9

अस्य । वृष्णः । वि-ओदने । उरु । क्रमिष्ट । जीवसे । यवम् । न । पश्वः । आ । ददे

8.63.10

तत् । दधानाः । अवस्यवः । युष्माभिः । दक्ष-पितरः । स्याम । मरुत्वतः । वृधे

8.63.11

बट् । ऋत्वियाय । धाम्नै । ऋक्व-भिः । शूर । नोनुमः । जेषाम । इन्द्र । त्वया । युजा

8.63.12

अस्मे इति । रुद्राः । मेहना । पर्वतासः । वृत्र-हत्ये । भर-हूतौ । स-जोषाः । यः । शंसते । स्तुवते । धायि । पज्रः । इन्द्र-ज्येष्टाः । अस्मान् । अवन्तु । देवाः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc