भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 8.62

8.62.1

॥39॥.
-र्व्_6:4।40-
(र्व्_8,62)
प्रो इति । अस्मै । उप-स्तुतिम् । भरत । यत् । जुजोषति । उक्थैः । इन्द्रस्य । माहिनम् । वयः । वर्धन्ति । सोमिनः । भद्राः । इन्द्रस्य । रातयः

8.62.2

अयुजः । असमः । नृ-भिः । एकः । कृष्टीः । अयास्यः । पूर्वीः । अति । प्र । ववृधे । विश्वा । जातानि । ओजसा । भद्राः । इन्द्रस्य । रातयः

8.62.3

अहितेन । चित् । अर्वता । जीर-दानुः । सिषासति । प्र-वाच्यम् । इन्द्र । तत् । तव । वीर्याणि । करिष्यतः । भद्राः । इन्द्रस्य । रातयः

8.62.4

आ । याहि । कृणवाम । ते । इन्द्र । ब्रह्माणि । वर्धना । येभिः । शविष्ठ । चाकनः । भद्रम् । इह । श्रवस्यते । भद्राः । इन्द्रस्य । रातयः

8.62.5

धृषतः । चित् । धृषत् । मनः । कृणोषि । इन्द्र । यत् । त्वम् । तीव्रैः । सोमैः । सपर्यतः । नमः-भिः । प्रति-भूषतः । भद्राः । इन्द्रस्य । रातयः

8.62.6

अव । चष्टे । ऋचीषमः । अवतान्-इव । मानुषः । जुष्टवी । दक्षस्य । सोमिनः । सखायम् । कृणुते । युजम् । भद्राः । इन्द्रस्य । रातयः

8.62.7

॥40॥.
-र्व्_6:4।41-
विश्वे । ते । इन्द्र । वीर्यम् । देवाः । अनु । क्रतुम् । ददुः । भुवः । विश्वस्य । गो--पतिः । पुरु-स्तुत । भद्राः । इन्द्रस्य । रातयः

8.62.8

गृणे । तत् । इन्द्र । ते । शवः । उप-मम् । देव-तातये । यत् । हंसि । वृत्रम् । ओजसा । शची-पते । भद्राः । इन्द्रस्य । रातयः

8.62.9

समनाइव । वपुष्यतः । कृणवत् । मानुषा । युगा । विदे । तत् । इन्द्रः । चेतनम् । अघ । श्रुतः । भद्राः । इन्द्रस्य । रातयः

8.62.10

उत् । जातम् । इन्द्र । ते । शवः । उत् । त्वाम् । उत् । तव । क्रतुम् । भूरिगो इतिभूरि-गो । भूरि । ववृधुः । मघ-वन् । तव । शर्मणि । भद्राः । इन्द्रस्य । रातयः

8.62.11

अहम् । च । त्वम् । च । वृत्र-हन् । सम् । युज्याव । सनि-भ्यः । आ । अराति-वा । चि त् । अद्रि-वः । अनु । नौ । शूर । मंसते । भद्राः । इन्द्रस्य । रातयः

8.62.12

सत्यम् । इर् । वै । ओं इति । तम् । वयम् । इन्द्रम् । स्तवाम । न । अनृतम् । महान् । असुन्वतः । वधः । भूरि । ज्योतींषि । सुन्वतः । भद्राः । इन्द्रस्य । रातयः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc