भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 8.59

8.59.1

॥29॥.
-र्व्_6:4।30-
(र्व्_8,59)
इमानि । वाम् । भाग-धेयानि । सिस्रते । इन्द्रावरुणा । प्र । महे । सुतेषु । वाम् । यज्ञे--यज्ञे । ह । सवना । भुरण्यथः । यत् । सुन्वते । यजमानाय । शिक्षथः

8.59.2

निः-सिध्वरीः । ओषधीः । आपः । आस्ताम् । इन्द्रावरुणा । महिमानम् । आशत । या । सिस्रतुः । रजसः । पारे । अध्वनः । ययोः । शत्रुः । नकिः । अदेवः । ओहते

8.59.3

सत्यम् । तत् । इन्द्रावरुणा । कृशस्य । वाम् । मध्वः । ऊर्मिम् । दुहते । सप्त । वाणीः । ताभिः । दाश्वांसम् । अवतम् । शुभः । पती इति । यः । वाम् । अदब्धः । अभि । पाति । चित्ति-भिः

8.59.4

घृत-प्रुषः । सौम्याः । जीर-दानवः । सप्त । स्वसारः । सदने । ऋतस्य । याः । ह । वाम् । इन्द्रावरुणा । घृत-श्चुतः । ताभिः । धत्तम् । यजमानाय । शिक्षतम्

8.59.5

॥30॥.
-र्व्_6:4।31-
अवोचाम । महते । सौभगाय । सत्यम् । त्वेषाभ्याम् । महिमानम् । इन्द्रियम् । अस्मान् । सु । इन्द्रावरुणा । घृत-श्चुतः । त्रि-भिः । साप्तेभिः । अवतम् । शुभः । पती इति

8.59.6

इन्द्रावरुणा । यत् । ऋषि-भ्यः । मनीषाम् । वाचः । मतिम् । श्रुतम् । अदत्तम् । अग्रे । यानि । स्थानानि । असृजन्त । धीराः । यज्ञम् । तन्वानाः । तपसा । अभि । अपश्यम्

8.59.7

इन्द्रावरुणा । सौमनसम् । अदृप्तम् । रायः । पोषम् । यजमानेषु । धत्तम् । प्र-जाम् । पुष्टिम् । भूतिम् । अस्मासु । धत्तम् । दीर्घायु-त्वाय । प्र । तिरतम् । नः । आयुः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc