ऋग्वेदसंहिता, पदपाठ · अध्याय 8.58
॥28॥.
-र्व्_6:4।29-
(र्व्_8,58)
यम् । ऋत्विजः । बहुधा । कल्पयन्तः । स-चेतसः । यज्ञम् । इमम् । वहन्ति । यः । अनूचानः । ब्राह्मणः । युक्तः । आसीत् । का । स्वित् । तत्र । यजमानस्य । सम्-वित्
एकः । एव । अग्निः । बहुधा । सम्-इद्धः । एकः । सूर्यः । विश्वम् । अनु । प्र-भूतः । एका । एव । उषाः । सर्वम् । इदम् । वि । भाति । एकम् । वै । इदम् । वि । बभूव । सर्वम्
ज्योतिष्मन्तम् । केतु-मन्तम् । त्रि-चक्रम् । सु-खम् । रथम् । सु-सदम् । भूरि-वारम् । चित्र-मघा । यस्य । योगे । अधि-जज्ञे । तम् । वाम् । हुवे । अति । रिक्तम् । पिबध्यै
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0