ऋग्वेदसंहिता, पदपाठ · अध्याय 8.60
॥31॥.
-र्व्_6:4।32-
(र्व्_8,60)
अग्ने । आ । याहि । अग्नि-भिः । होतारम् । त्वा । वृणीमहे । आ । त्वाम् । अनक्तु । प्र-यता । हविष्मती । यजिष्ठम् । बर्हिः । आसदे
अच्छ । हि । त्वा । सहसः । सूनो इति । अङ्गिरः । स्रुचः । चरन्ति । अध्वरे । ऊर्जः । नपातम् । घृत-केशम् । ईमहे । अग्निम् । यज्ञेषु । पूर्व्यम्
अग्ने । कविः । वेधाः । असि । होता । पावक । यक्ष्यः । मन्द्रः । यजिष्ठः । अध्वरेषु । ईड्यः । विप्रेभिः । शुक्र । मन्म-भिः
अद्रोघम् । आ । वह । उशतः । यविष्ठ्य । देवान् । अजस्र । वीतये । अभि । प्रयांसि । सु-धिता । आ । वसो इति । गहि । मन्दस्व । धीति-भिः । हितः
त्वम् । इत् । स-प्रथाः । असि । अग्ने । त्रातः । ऋतः । कविः । त्वाम् । विप्रासः । सम्-इधान । दीदि-वः । आ । विवासन्ति । वेधसः
॥32॥.
-र्व्_6:4।33-
शोच । शोचिष्ठ । दीदिहि । विशे । मयः । रास्व । स्तोत्रे । महान् । असि । देवानाम् । शर्मन् । मम । सन्तु । सूरयः । शत्रु-सहः । सु-अग्नयः
यथा । चित् । ऋद्धम् । अतसम् । अग्ने । सम्-जूर्वसि । क्षमि । एव । दह । मित्र-महः । यः । अस्म-ध्रुक् । दुः-मन्मा । कः । च । वेनति
मा । नः । मर्ताय । रिपवे । रक्षस्विने । मा । अघ-शंसाय । रीरधः । अस्रेधत्-भिः । तरणि-भिः । यविष्ठ्य । शिवेभिः । पाहि । पायु-भिः
पाहि । नः । अग्ने । एकया । पाहि । उत । द्वितीयया । पाहि । गीः-भिः । तिसृ-भिः । ऊर्जाम् । पते । पाहि । चतसृ-भिः । वसो इति
पाहि । विश्वस्मात् । रक्षसः । अराव्णः । प्र । स्म । वाजेषु । नः । अव । त्वाम् । इत् । हि । नेदिष्ठम् । देव-तातये । आपिम् । नक्षामहे । वृधे
॥33॥.
-र्व्_6:4।34-
आ । नः । अग्ने । वयः-वृधम् । रयिम् । पावक । शंस्यम् । रास्व । च । नः । उप-माते । पुरु-स्पृहम् । सु-नीती । स्वयशः-तरम्
येन । वंसाम । पृतनासु । शर्धतः । तरन्तः । अर्यः । आदिशः । सः । त्वम् । नः । वर्ध । प्र-यसा । शचीवसो इतिशची-वसो । जिन्व । धियः । वसु-विदः
शिशानः । वृषभः । यथा । अग्निः । शृङ्गे । दविध्वत् । तिग्माः । अस्य । हनवः । न । प्रति-धृषे । सु-जम्भः । सहसः । यहुः
नहि । ते । अग्ने । वृषभ । प्रति-धृषे । जम्भासः । यत् । वि-तिष्ठसे । सः । त्वम् । नः । होतरिति । सु-हुतम् । हविः । कृधि । वंस्व । नः । वार्या । पुरु
शेषे । वनेषु । मात्रोः । सम् । त्वा । मर्तासः । इन्धते । अतन्द्रः । हव्या । वहसि । हविः-कृतः । आत् । इत् । देवेषु । राजसि
॥34॥.
-र्व्_6:4।35-
सप्त । होतारः । तम् । इत् । ईळते । त्वा । अग्ने । सु-त्यजम् । अह्रयम् । भिनत्सि । अद्र् इम् । तपसा । वि । शोचिषा । प्र । अग्ने । तिष्ठ । जनान् । अति
अग्निम्-अग्निम् । वः । अध्रि-गुम् । हुवेम । वृक्त-बर्हिषः । अग्निम् । हित-प्रयसः । शश्वतीषु । आ । होतारम् । चर्षणीनाम्
केतेन । शर्मन् । सचते । सु-सामनि । अग्ने । तुभ्यम् । चिकित्वना । इषण्यया । नः । पुरु-रूपम् । आ । भर । वाजन् । नेदिष्ठम् । ऊतये
अग्ने । जरितः । विश्पतिः । तेपानः । देव । रक्षसः । अप्रोषि-वान् । गृह-पतिः । महान् । असि । दिवः । पायुः । दिरोण-युः
मा । नः । रक्षः । आ । वेशीत् । आघृणिवसो इत्य् आघृणि-वसो । मा । यातुः । यातु-मावताम् । परः-गव्यूति । अनिराम् । अप । क्षुधम् । अग्ने । सेध । रक्षस्विनः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0