ऋग्वेदसंहिता, पदपाठ · अध्याय 8.53
॥21॥.
-र्व्_6:4।22-
(र्व्_8,53)
उप-मम् । त्वा । मघोनाम् । ज्येष्ठम् । च । वृषभाणाम् । पुर्भित्-तमम् । मघ-वन् । इन्द्र । गो--विदम् । ईशानम् । रायः । ईमहे
यः । आयुम् । कुत्सम् । अतिथि-ग्वम् । अर्दयः । ववृधानः । दिवे--दिवे । तम् । त्वा । वयम् । हरि-अश्वम् । शत-क्रतुम् । वाज-यन्तः । हवामहे
आ । नः । विश्वेषाम् । रसम् । मध्वः । सिञ्चन्तु । अद्रयः । ये । परावति । सुन्व् इरे । जनेषु । आ । ये । अर्वावति । इन्दवः
विश्वा । द्वेषांसि । जहि । च । अवच । आ । कृधि । विश्वे । सन्वन्तु । आ । वसु । शीष्टेषु । चित् । ते । मदिरासः । अंशवः । यत्र । सोमस्य । तृम्पसि
॥22॥.
-र्व्_6:4।23-
इन्द्र । नेदीयः । आ । इत् । इहि । मित-मेधाभिः । ऊति-भिः । आ । शम्-तम । शम्-तमाभिः । अभिष्टि-भिः । आ । सु-आपे । स्वापि-भिः
आजि-तुरम् । सत्-पतिम् । विश्व-चर्षणिम् । कृधि । प्र-जासु । आभगम् । प्र । सु । तिर । शचीभिः । ये । ते । उक्थिनः । क्रतुम् । पुनते । आनुषक्
यः । ते । साधिष्ठः । अवसे । ते । स्याम । भरेषु । ते । वयम् । होत्राभिः । उत । देवहूति-भिः । सस-वांसः । मनामहे
अहम् । हि । ते । हरि-वः । ब्रह्म । वाज-युः । आजिम् । यामि । सदा । ऊति-भिः । त्वाम् । इत् । एव । तम् । अमे । सम् । अश्व-युः । गव्युः । अग्रे । मथीनाम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0