भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 8.54

8.54.1

॥23॥.
-र्व्_6:4।24-
(र्व्_8,54)
एतत् । ते । इन्द्र । वीर्यम् । गीः-भिः । गृणन्ति । कारवः । ते । स्तोभन्तः । ऊर्जम् । आवन् । घृत-श्चुतम् । पौरासः । नक्षन् । धीति-भिः

8.54.2

नक्षन्ते । इन्द्रम् । अवसे । सु-कृत्यया । येषाम् । सुतेषु । मन्दसे । यथा । सम्-वर्ते । अमदः । यथा । कृशे । एव । अस्मे इति । इन्द्र । मत्स्व

8.54.3

आ । नः । विश्वे । स-जोषसः । देवासः । गन्तन । उप । नः । वसवः । रुद्राः । अवसे । नः । आ । गमन् । शृण्वन्तु । मरुतः । हवम्

8.54.4

पूषा । विष्णुः । हवनम् । मे । सरस्वती । अवन्तु । सप्त । सिन्धवः । आपः । वातः । पर्वतासः । वनस्पतिः । शृणोतु । पृथिवी । हवम्

8.54.5

॥24॥.
-र्व्_6:4।25-
यत् । इन्द्र । राधः । अस्ति । ते । माघोनम् । मघवत्-तम । तेन । नः । बोधि । सध-माद्यः । वृधे । भगः । दानाय । वृत्र-हन्

8.54.6

आजि-पते । नृ-पते । त्वम् । इत् । हि । नः । वाजे । आ । वक्षि । सुक्रतो इतिसु-क्रतो । वीती । होत्राभिः । उत । देववीति-भिः । सस-वांसः । वि । शृण्विरे

8.54.7

सन्ति । हि । अर्ये । आशिषः । इन्द्रे । आयुः । जनानाम् । अस्मान् । नक्षस्व । मघ-वन् । उप । अवसे । धुक्षस्व । पिप्युषीम् । इषम्

8.54.8

वयम् । ते । इन्द्र । स्तोमेभिः । विधेम । त्वम् । अस्माकम् । शतक्रतो इतिशत-क्रतो । महि । स्थूरम् । शशयम् । राधः । अह्रयम् । प्रस्कण्वाय । नि । तोशय

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc