ऋग्वेदसंहिता, पदपाठ · अध्याय 8.52
॥19॥.
-र्व्_6:4।20-
(र्व्_8,52)
यथा । मनौ । विवस्वति । सोमम् । शक्र । अपिबः । सुतम् । यथा । त्रिते । छन्दः । इन्द्र । जुजोषसि । आयौ । मादयसे । सचा
पृषध्रे । मेध्ये । मातरिश्वनि । इन्द्र । सुवाने । अमन्दथाः । यथा । सोमम् । दश-शिप्रे । दश-ओण्ये । स्यूम-रश्मौ । ऋजूनसि
यः । उक्था । केवला । दधे । यः । सोमम् । धृषिता । अपिबत् । यस्मै । विष्णुः । त्रीणि । पदा । वि-चक्रमे । उप । मित्रस्य । धर्म-भिः
यस्य । त्वम् । इन्द्र । स्तोमेषु । चाकनः । वाजे । वाजिन् । शतक्रतो इतिशत-क्रतो । तम् । त्वा । वयम् । सुदुघाम्-इव । गो--दुहः । जुहूमसि । श्रवस्यवः
यः । नः । दाता । सः । नः । पिता । महान् । उग्रः । ईशान-कृत् । अयामन् । उग्रः । मघ-वा । पुरु-वसुः । गोः । अश्वस्य । प्र । दातु । नः
॥20॥.
-र्व्_6:4।21-
यस्मै । त्वम् । वसो इति । दानाय । मंहसे । सः । रायः । पोषम् । इन्वति । वसु-यवः । वसु-पतिम् । शत-क्रतुम् । स्तोमैः । इन्द्रम् । हवामहे
कदा । चन । प्र । युच्छसि । उभे इति । नि । पासि । जन्मनी इति । । तुरीय । आदित्य । हवनम् । ते । इन्द्रियम् । आ । तस्थौ । अमृतम् । दिवि
यस्मै । त्वम् । मघ-वन् । इन्द्र । गिर्वणः । शिक्षो इति । शिक्षसि । दाशुषे । अस्माकम् । गिरः । उत । सुस्तुतिम् । वसो इति । कण्व-वत् । शृणुधि । हवम्
अस्तावि । मन्म । पूर्व्यम् । ब्रह्म । इन्द्राय । वोचत । पूर्वीः । ऋतस्य । बृहतीः । अनूषत । स्तोतुः । मेधाः । असृक्षत
सम् । इन्द्रः । रायः । बृहतीः । अधूनुत । सम् । क्षोणी इति । सम् । ओं इति । सूर्यम् । सम् । शुक्रासः । शुचयः । सम् । गो--आशिरः । सोमाः । इन्द्रम् । अमन्दिषुः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0