ऋग्वेदसंहिता, पदपाठ · अध्याय 8.51
॥17॥.
-र्व्_6:4।18-
(र्व्_8,51)
यथा । मनौ । साम्-वरणौ । सोमम् । इन्द्र । अपिबः । सुतम् । नीप-अतिथौ । मघ-वन् । मेध्य-अतिथौ । पुष्टि-गौ । श्रुष्टि-गौ । सचा
पार्षद्वाणः । प्रस्कण्वम् । सम् । असादयत् । शयानम् । जिव्रिम् । उद्धितम् । सहस्राणि । असिसासत् । गवाम् । ऋषिः । त्वाऊतः । दस्यवे । वृकः
यः । उक्थेभिः । न । विन्धते । चिकित् । यः । ऋषि-चोदनः । इन्द्रम् । तम् । अच्छ । वद । नव्यस्या । मती । अरिष्यन्तम् । न । भोजसे
यस्मै । अर्कम् । सप्त-शीर्षाणम् । आनृचुः । त्रि-धातुम् । उत्-तमे । पदे । सः । तु । इमा । विश्वा । भुवनानि । चिक्रदत् । आत् । इत् । जनिष्ट । पैंस्यम्
यः । नः । दाता । वसूनाम् । इन्द्रम् । तम् । हूमहे । वयम् । विद्म । हि । अस्य । सु-मतिम् । नवीयसीम् । घमेम । गो--मति । व्रजे
॥18॥.
-र्व्_6:4।19-
यस्मै । त्वम् । वसो इति । दानाय । शिक्षसि । सः । रायः । पोषम् । अश्नुते । तम् । त्वा । वयम् । मघ-वन् । इन्द्र । गिर्वणः । सुत-वन्तः । हवामहे
कदा । चन । स्तरीः । असि । न । इन्द्र । सश्चसि । दाशुषे । उप-उप । इत् । नु । मघ-वन् । भूयः । इत् । नु । ते । दानम् । देवस्य । पृच्यते
प्र । यः । ननक्षे । अभि । ओजसा । क्रिविम् । वधैः । शुष्णम् । नि-घोषयन् । यदा । इत् । अस्तम्भीत् । प्रथयन् । अमूम् । दिवम् । आत् । इत् । जनिष्ट । पार्थिवः
यस्य । अयम् । विश्वः । आर्यः । दासः । शेवधि-पाः । अरिः । तिरः । चित् । अर्ये । रुशमे । पवीरवि । तुभ्य । इत् । सः । अज्यते । रयिः
तुरण्यवः । मधु-मन्तम् । घृत-श्चुतम् । विप्रासः । अर्कम् । आनृचुः । अस्मे इति । रयिः । पप्रथे । वृष्ण्यम् । शवः । अस्मे इति । सुवानासः । इन्दवः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0