ऋग्वेदसंहिता, पदपाठ · अध्याय 8.50
॥15॥.
-र्व्_6:4।16-
(र्व्_8,50)
प्र । सु । श्रुतम् । सु-राधसम् । अर्च । शक्रम् । अभिष्टये । यः । सुन्वते । स्तुवते । काम्यम् । वसु । सहस्रेण-इव । मंहते
शत-अनीकाः । हेतयः । अस्य । दुस्तराः । इन्द्रस्य । सम्-इषः । महीः । गिर् इः । न । भुज्मा । मघवत्-सु । पिन्वते । यत् । ईम् । सुताः । अमन्दिषुः
यत् । ईम् । सुतासः । इन्दवः । अभि । प्रियम् । अमन्दिषुः । आपः । न । धायि । सवनम् । मे । आ । वसो इति । दुघाइव । उप । दाशुषे
अनेहसम् । वः । हवमानम् । ऊतये । मध्वः । क्षरन्ति । धीतयः । आ । त्वा । वसो इति । हवमानासः । इन्दवः । उप । स्तोत्रेषु । दधिरे
आ । नः । सोमे । सु-अध्वरे । इयानः । अत्यः । न । तोशते । यम् । ते । स्वदावन् । स्वदन्ति । गूर्त्यः । पौरे । छन्दयसे । हवम्
॥16॥.
-र्व्_6:4।17-
प्र । वीरम् । उग्रम् । विविचिम् । धन-स्पृतम् । वि-भूतिम् । राधसः । महः । उद्री-इव । वज्रिन् । अवतः । वसु-त्वना । सदा । पीपेथ । दाशुषे
यत् । ह । नूनम् । परावति । यत् । वा । पृथिव्याम् । दिवि । युजानः । इन्द्र । हरि-भिः । महे--मते । ऋष्वः । ऋष्वेभिः । आ । गहि
रथिरासः । हरयः । ये । ते । अस्रिधः । ओजः । वातस्य । पिप्रति । येभिः । नि । दस्युम् । मनुषः । नि-घोषयः । येभिः । स्वर् इति स्वः । परि-ईयसे
एतावतः । ते । वसो इति । विद्याम । शूर । नव्यसः । यथा । प्र । आवः । एतशम् । कृत्व्ये । धने । यथा । वशम् । दश-व्रजे
यथा । कण्वे । मघ-वन् । मेधे । अध्वरे । दीर्घ-नीथे । दमूनसि । यथा । गो--शर्ये । असिसासः । अद्रि-वः । मयि । गोत्रम् । हरि-श्रियम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0