ऋग्वेदसंहिता, पदपाठ · अध्याय 8.49
॥13॥.
-र्व्_6:4।14-
(र्व्_8,49)
अभि । प्र । वः । सु-राधसम् । इन्द्रम् । अर्च । यथा । विदे । यः । जरितृ-भ्यः । मघ-वा । पुरु-वसुः । सहस्रेण-इव । शिक्षति
शतानीकाइव । प्र । जिगाति । धृष्णु-या । हन्ति । वृत्राणि । दाशुषे । गिरेः-इव । प्र । रसाः । अस्य । पिन्विरे । दत्राणि । पुरु-भोजसः
आ । त्वा । सुतासः । इन्दवः । मदाः । ये । इन्द्र । गिर्वणः । आपः । न । वज्रिन् । अनु । ओक्यम् । सरः । पृणन्ति । शूर । राधसे
अनेहसम् । प्र-तरणम् । विवक्षणम् । मध्वः । स्वादिष्ठम् । ईम् । पिब । आ । यथा । मन्दसानः । किरासि । नः । प्र । क्षुद्राइव । त्मना । धृषत्
आ । नः । स्तोमम् । उप । द्रवत् । हियानः । अश्वः । न । सोतृ-भिः । यम् । ते । स्वधावन् । स्वदयन्ति । धेनवः । इन्द्र । कण्वेषु । रातयः
॥14॥.
-र्व्_6:4।15-
उग्रम् । न । वीरम् । नमसा । उप । सेदिम । वि-भूतिम् । अक्षित-वसुम् । उद्री-इव । वज्रिन् । अवतः । न । सिञ्चते । क्षरन्ति । इन्द्र । धीतयः
यत् । ह । नूनम् । यत् । वा । यज्ञे । यत् । वा । पृथिव्याम् । अधि । अतः । नः । यज्ञम् । आशु-भिः । महे--मते । उग्रः । उग्रेभिः । आ । गहि
अजिरासः । हरयः । ये । ते । आशवः । वाताः-इव । प्र-सक्षिणः । येभिः । अपत्यम् । मनुषः । परि-ईयसे । येभिः । विश्वम् । स्वः । दृशे
एतावतः । ते । ईमहे । इन्द्र । सुम्नस्य । गो--मतः । यथा । प्र । आवः । मघ-वन् । मेध्य-अतिथिम् । यथा । नीप-अतिथिम् । धने
यथा । कण्वे । मघ-वन् । त्रसदस्यवि । यथा । पक्थे । दश-व्रजे । यथा । गो--शर्ये । असनोः । ऋजिश्वनि । इन्द्र । गो--मत् । हिरण्य-वत्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0