भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 8.48

8.48.1

॥10॥.
-र्व्_6:4।11-
(र्व्_8,48)
स्वादोः । अभक्षि । वयसः । सु-मेधाः । सु-आध्यः । वरिवोवित्-तरस्य । विश्वे । यम् । देवाः । उत । मर्त्यासः । मधु । ब्रुवन्तः । अभि । सम्-चरन्ति

8.48.2

अन्तरिति । च । प्र । अगाः । अदितिः । भवासि । अव-याता । हरसः । दैव्यस्य । इन्दो इति । इन्द्रस्य । सख्यम् । जुषाणः । श्रौष्टी-इव । धुरम् । अनु । राये । ऋध्याः

8.48.3

अपाम । सोमम् । अमृताः । अभूम । अगन्म । ज्योतिः । अविदाम । देवान् । किम् । नूनम् । अस्मान् । कृणवत् । अराति । किम् । ओं इति । धूर्तिः । अमृत । मर्त्यस्य

8.48.4

शम् । नः । भव । हृदे । आ । पीतः । इन्दो इति । पिताइव । सोम । सूनवे । सु-शेवः । सखाइव । सख्ये । उरु-शंस । धीरः । प्र । नः । आयुः । जीवसे । सोम । तारीः

8.48.5

इमे । मा । पीताः । यशसः । उरुष्यवः । रथम् । न । गावः । सम् । अनाह । पर्व-सु । ते । मा । रक्षन्तु । विस्रसः । चरित्रात् । उत । मा । स्रामात् । यवयन्तु । इन्दवः

8.48.6

॥11॥.
-र्व्_6:4।12-
अग्निम् । न । मा । मथितम् । सम् । दिदीपः । प्र । चक्षय । कृणुहि । वस्यसः । नः । अथ । हि । ते । मदे । आ । सोम । मन्ये । रेवान्-इव । प्र । चर । पुष्टिम् । अच्छ

8.48.7

इषिरेण । ते । मनसा । सुतस्य । भक्षीमहि । पित्र्यस्य-इव । रायः । सोम । राजन् । प्र । नः । आयूंषि । तारीः । अहानि-इव । सूर्यः । वासराणि

8.48.8

सोम । राजन् । मृळय । नः । स्वस्ति । तव । स्मसि । व्रत्याः । तस्य । विद्धि । अलर्ति । दक्षः । उत । मन्युः । इन्दो इति । मा । नः । अर्यः । अनु-कामम् । परा । दाः

8.48.9

त्वम् । हि । नः । तन्वः । सोम । गोपाः । गात्रे--गात्रे । नि-ससत्थ । नृ-चक्षाः । यत् । ते । वयम् । प्र-मिनाम । व्रतानि । सः । नः । मृळ । सु-सखा । देव । वस्यः

8.48.10

ऋदूदरेण । सख्या । सचेय । यः । मा । न । रिष्येत् । हरि-अश्व । पीतः । अयम् । यः । सोमः । नि । अधायि । अस्मे इति । तस्मै । इन्द्रम् । प्र-तिरम् । एमि । आयुः

8.48.11

॥12॥.
-र्व्_6:4।13-
अप । त्याः । अस्थुः । अनिराः । अमीवाः । निः । अत्रसन् । तमिषीचीः । अभैषुः । आ । सोमः । अस्मान् । अरुहत् । वि-हायाः । अगन्म । यत्र । प्र-तिरन्ते । आयुः

8.48.12

यः । नः । इन्दुः । पितरः । हृत्-सु । पीतः । अमर्त्यः । मर्त्यान् । आविवेश । तस्मै । सोमाय । हविषा । विधेम । मृळीके । अस्य । सु-मतौ । स्याम

8.48.13

त्वम् । सोम । पितृ-भिः । सम्-विदानः । अनु । द्यावापृथिवी इति । आ । ततन्थ । तस्मै । ते । इन्दो इति । हविषा । विधेम । वयम् । स्याम । पतयः । रयीणाम्

8.48.14

त्रातारः । देवाः । अधि । वोचत । नः । मा । नः । नि-द्रा । ईशत । मा । उत । जल्पिः । वयम् । सोमस्य । विश्वह । प्रियासः । सु-वीरासः । विदथम् । आ । वदेम

8.48.15

त्वम् । नः । सोम । विश्वतः । वयः-धाः । त्वम् । स्वः-वित् । आ । विश । नृ-चक्षाः । त्वम् । नः । इन्दो इति । ऊति-भिः । स-जोषाः । पाहि । पश्चातात् । उत । वा । पुरस्तात्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc