ऋग्वेदसंहिता, पदपाठ · अध्याय 8.44
॥35॥.
-र्व्_6:3।36-
(र्व्_8,44)
सम्-इधा । अग्निम् । दुवस्यत । घृतैः । बोधयत । अतिथिम् । आ । अस्मिन् । हव्या । जुहोतन
अग्ने । स्तोमम् । जुषस्व । मे । वर्धस्व । अनेन । मन्मना । प्रति । सु-उक्तानि । हर्य । नः
अग्निम् । दूतम् । पुरः । दधे । हव्य-वाहम् । उप । ब्रुवे । देवान् । आ । सादयात् । इह
उत् । ते । बृहन्तः । अर्चयः । सम्-इधानस्य । दीदि-वः । अग्ने । शुक्रासः । ईरते
उप । त्वा । जुह्वः । मम । घृताचीः । यन्तु । हर्यत । अग्ने । हव्या । जुषस्व । नः
॥36॥.
-र्व्_6:3।37-
मन्द्रम् । होतारम् । ऋत्विजम् । चित्र-भानुम् । विभावसुम् । अग्निम् । ईळे । सः । ओं इति । श्रवत्
प्रत्नम् । होतारम् । ईड्यम् । जुष्टम् । अग्निम् । कवि-क्रतुम् । अध्वराणाम् । अभि-श्रियम्
जुषाणः । अङ्गिरः-तम । इमा । हव्यानि । आनुषक् । अग्ने । यज्ञम् । नय । ऋतु-था
सम्-इधानः । ओं इति । सन्त्य । शुक्र-शोचे । इह । आ । वह । चिकित्वान् । दैव्यम् । जनम्
विप्रम् । होतारम् । अद्रुहम् । धूम-केतुम् । विभावसुम् । यज्ञानाम् । केतुम् । ईमहे
॥37॥.
-र्व्_6:3।38-
अग्ने । नि । पाहि । नः । त्वम् । प्रति । स्म । देव । रिषतः । भिन्धि । द्वेषः । सहः-कृत
अग्निः । प्रत्नेन । मन्मना । शुम्भानः । तन्वम् । स्वाम् । कविः । विप्रेण । ववृधे
ऊर्जः । नपातम् । आ । हुवे । अग्निम् । पावक-शोचिषम् । अस्मिन् । यज्ञे । सु-अध्वरे
सः । नः । मित्र-महः । त्वम् । अग्ने । शुक्रेण । शोचिषा । देवैः । आ । सत्सि । बर्हि षि
यः । अग्निम् । तन्वः । दमे । देवम् । मर्तः । सपर्यति । तस्मै । इत् । दीदयत् । वसु
॥38॥.
-र्व्_6:3।39-
अग्निः । मूर्धा । दिवः । ककुत् । पतिः । पृथिव्याः । अयम् । अपाम् । रेतांसि । जिन्वति
उत् । अग्ने । शुचयः । तव । शुक्राः । भ्राजन्तः । ईरते । तव । ज्योतींषि । अर्चयः
ईशिषे । वार्यस्य । हि । दात्रस्य । अग्ने । स्वः-पतिः । स्तोता । स्याम् । तव । शमर्णि
त्वाम् । अग्ने । मनीषिणः । त्वाम् । हिन्वन्ति । चित्ति-भिः । त्वाम् । वर्धन्तु । नः । ग् इरः
अदब्धस्य । स्वधावतः । दूतस्य । रेभतः । सदा । अग्नेः । सख्यम् । वृणीमहे
॥39॥.
-र्व्_6:3।40-
अग्निः । शुचिव्रत-तमः । शुचिः । विप्रः । शुचिः । कविः । शुचिः । रोचते । आहुतः
उत । त्वा । धीतयः । मम । गिरः । वृधन्तु । विस्वहा । अग्ने । सख्यस्य । बोधि । नः
यत् । अग्ने । स्याम् । अहम् । त्वम् । त्वम् । वा । घ । स्याः । अहम् । स्युः । ते । सत्याः । इह । आशिषः
वसुः । वसु-पतिः । हि । कम् । असि । अग्ने । विभावसुः । स्याम । ते । सु-मतौ । अपि
अग्ने । धृत-व्रताय । ते । समुद्राय-इव । सिन्धवः । गिरः । वाश्रासः । ईरते
॥40॥.
-र्व्_6:3।41-
युवानम् । विश्पतिम् । कविम् । विश्व-अदम् । पुरु-वेपसम् । अग्निम् । शुम्भामि । मन्म-भिः
यज्ञानाम् । रथ्ये । वयम् । तिग्म-जम्भाय । वीळवे । स्तोमैः । इषेम । अग्नये
अयम् । अग्ने । त्वे इति । अपि । जरिता । भूतु । सन्त्य । तस्मै । पावक । मृळय
धीरः । हि । असि । अद्म-सत् । विप्रः । न । जागृविः । सदा । अग्ने । दीदयसि । द्यवि
पुरा । अग्ने । दुः-इतेभ्यः । पुरा । मृध्रेभ्यः । कवे । प्र । नः । आयुः । वसो इति । तिर
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0