भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 8.43

8.43.1

॥28॥.
-र्व्_6:3।29-
(र्व्_8,43)
इमे । विप्रस्य । वेधसः । अग्नेः । अस्तृत-यज्वनः । गिरः । स्तोमासः । ईरते

8.43.2

अस्मै । ते । प्रति-हर्यते । जात-वेदः । वि-चर्षणे । अग्ने । जनामि । सु-स्तुतिम्

8.43.3

आरोकाः-इव । घ । इत् । अह । तिग्माः । अग्ने । तव । त्विषः । दत्-भिः । वनानि । बप्सति

8.43.4

हरयः । धूम-केतवः । वात-जूताः । उप । द्यवि । यतन्ते । वृथक् । अग्नयः

8.43.5

एते । त्ये । वृथक् । अग्नयः । इद्धासः । सम् । अदृक्षत । उषसाम्-इव । केतवः

8.43.6

॥29॥.
-र्व्_6:3।30-
कृष्णा । रजांसि । पत्सुतः । प्र-याणे । जात-वेदसः । अग्निः । यत् । रोधति । क्षम् इ

8.43.7

धासिम् । कृण्वानः । ओषधीः । बप्सत् । अग्निः । न । वायति । पुनः । यन् । तरुणीः । अपि

8.43.8

जिह्वाभिः । अह । नन्नमत् । अर्चिषा । जञ्जणाभवन् । अग्निः । वनेषु । रोचते

8.43.9

अप्-सु । अग्ने । सधिः । तव । सः । ओषधीः । अनु । रुध्यसे । गर्भे । सन् । जायसे । पुनरिति

8.43.10

उत् । अग्ने । तव । तत् । घृतात् । अर्चिः । रोचते । आहुतम् । निंसानम् । जुह्वः । मुखे

8.43.11

॥30॥.
-र्व्_6:3।31-
उक्ष-अन्नाय । वशाअन्नाय । सोम-पृष्ठाय । वेधसे । स्तोमैः । विधेम । अग्नये

8.43.12

उत । त्वा । नमसा । वयम् । होतः । वरेण्यक्रतो इतिवरेण्य-क्रतो । अग्ने । समित्-भिः । ईमहे

8.43.13

उत । त्वा । भृगु-वत् । शुचे । मनुष्वत् । अग्ने । आहुत । अङ्गिरस्वत् । हवामहे

8.43.14

त्वम् । हि । अग्ने । अग्निना । विप्रः । विप्रेण । सन् । सता । सखा । सख्या । सम्-इध्यसे

8.43.15

सः । त्वम् । विप्राय । दाशुषे । रयिम् । देहि । सहस्रिणम् । अग्ने । वीर-वतीम् । इषम्

8.43.16

॥31॥.
-र्व्_6:3।32-
अग्ने । भ्रातरिति । सहः-कृत । रोहित्-अश्व । शुचि-व्रत । इमम् । स्तोमम् । जुषस्व । मे

8.43.17

उत । त्वा । अग्ने । मम । स्तुतः । वाश्राय । प्रति-हर्यते । गो--स्थम् । गावः-इव । आशत

8.43.18

तुभ्यम् । ताः । अङ्गिरः-तम । विश्वाः । सु-क्षितयः । पृथक् । अग्ने । कामाय । येमिरे

8.43.19

अग्निम् । धीभिः । मनीषिणः । मेधिरासः । विपः-चितः । अद्म-सद्याय । हिन्विरे

8.43.20

तम् । त्वाम् । अज्मेषु । वाजिनम् । तन्वानाः । अग्ने । अध्वरम् । वह्निम् । होतारम् । ईळते

8.43.21

॥32॥.
-र्व्_6:3।33-
पुरु-त्रा । हि । सदृङ् । असि । विशः । विश्वाः । अनु । प्र-भुः । समत्-सु । त्वा । हवामहे

8.43.22

तम् । ईळिष्व । यः । आहुतः । अग्निः । वि-भ्राजते । घृतैः । इमम् । नः । शृणवत् । हवम्

8.43.23

तम् । त्वा । वयम् । हवामहे । शृण्वन्तम् । जात-वेदसम् । अग्ने । घ्नन्तम् । अप । द्विषः

8.43.24

विशाम् । राजानम् । अद्भुतम् । अधि-अक्षम् । धर्मणाम् । इमम् । अग्निम् । ईळे । सः । ओं इति । श्रवत्

8.43.25

अग्निम् । विश्वायु-वेपसम् । मर्यम् । न । वाजिनम् । हितम् । सप्तिम् । न । वाजयामसि

8.43.26

॥33॥.
-र्व्_6:3।34-
घ्नन् । मृध्राणि । अप । द्विषः । दहन् । रक्षांसि । विश्वहा । अग्ने । तिग्मेन । दीदि हि

8.43.27

यम् । त्वा । जनासः । इन्धते । मनुष्वत् । अङ्गिरः-तम । अग्ने । सः । बोधि । मे । वचः

8.43.28

यत् । अग्ने । दिवि-जाः । असि । अप्सु-जाः । वा । सहः-कृत । तम् । त्वा । गीः-भिः । हवामहे

8.43.29

तुभ्यम् । घ । इत् । ते । जनाः । इमे । विश्वाः । सु-क्षितयः । पृथक् । धासिम् । हिन्वन्ति । अत्तवे

8.43.30

ते । घ । इत् । अग्ने । सु-आध्यः । अहा । विश्वा । नृ-चक्षसः । तरन्तः । स्याम । दुः-गहा

8.43.31

॥34॥.
-र्व्_6:3।35-
अग्निम् । मन्द्रम् । पुरु-प्रियम् । शीरम् । पावक-शोचिषम् । हृत्-भिः । मन्द्रेभिः । ईमहे

8.43.32

सः । त्वम् । अग्ने । विभावसुः । सृजन् । सूर्यः । न । रश्मि-भिः । शर्धन् । तमांसि । जिघ्नसे

8.43.33

तत् । ते । सहस्वः । ईमहे । दात्रम् । यत् । न । उप-दस्यति । त्वत् । अग्ने । वायर्म् । वसु

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc