ऋग्वेदसंहिता, पदपाठ · अध्याय 8.42
॥27॥.
-र्व्_6:3।28-
(र्व्_8,42)
अस्तभ्नात् । द्याम् । असुरः । विश्व-वेदाः । अमिमीत । वरिमाणम् । पृथिव्याः । आ । असीदत् । विश्वा । भुवनानि । सम्-राट् । विश्वा । इत् । तानि । वरुणस्य । व्रतानि
एव । वन्दस्व । वरुणम् । बृहन्तम् । नमस्य । धीरम् । अमृतस्य । गोपाम् । सः । नः । शर्म । त्रि-वरूथम् । वि । यंसत् । पतम् । नः । द्यावापृथिवी इति । उप-स्थे
इमाम् । धियम् । शिक्षमाणस्य । देव । क्रतुम् । दक्षम् । वरुण । सम् । शिशाधि । यया । अति । विश्वा । दुः-इता । तरेम । सु-तर्माणम् । अधि । नावम् । रुहेम
आ । वाम् । ग्रावाणः । अश्विना । धीभिः । विप्राः । अचुच्यवुः । नासत्या । सोम-पीतये । नभन्ताम् । अन्यके । समे
यथा । वाम् । अत्रिः । अश्विना । गीः-भिः । विप्रः । अजोहवीत् । नासत्या । सोम-पीतये । नभन्ताम् । अन्यके । समे
एव । वाम् । अह्वे । ऊतये । यथा । अहुवन्त । मेधिराः । नासत्या । सोम-पीतये । नभन्ताम् । अन्यके । समे
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0