भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 8.41

8.41.1

॥25॥.
-र्व्_6:3।26-
(र्व्_8,41)
अस्मै । ओं इति । सु । प्र-भूतये । वरुणाय । मरुत्-भ्यः । अर्च । विदुः-तरेभ्यः । यः । धीता । मानुषाणाम् । पश्वः । गाः-इव । रक्षति । नभन्ताम् । अन्यके । समे

8.41.2

तम् । ओं इति । सु । समना । गिरा । पितॄणाम् । च । मन्म-भिः । नाभाकस्य । प्रसस्ति-भिः । यः । सिन्धूनाम् । उप । उत्-अये । सप्त-स्वसा । सः । मध्यमः । नभन्ताम् । अन्यके । समे

8.41.3

सः । क्षपः । परि । सस्वजे । नि । उस्रः । मायया । दधे । सः । विश्वम् । परि । दर्शतः । तस्य । वेनीः । अनु । व्रतम् । उषः । तिस्रः । अवर्धयन् । नभन्ताम् । अन्यके । समे

8.41.4

यः । ककुभः । नि-धारयः । पृथिव्याम् । अधि । दर्शतः । सः । माता । पूर्व्यम् । पदम् । तत् । वरुणस्य । सप्त्यम् । सः । हि । गोपाः-इव । इर्यः । नभन्ताम् । अन्यके । समे

8.41.5

यः । धर्ता । भुवनानाम् । यः । उस्राणाम् । अपीच्या । वेद । नामानि । गुह्या । सः । कविः । काव्या । पुरु । रूपम् । द्यौः-इव । पुष्यति । नभन्ताम् । अन्यके । समे

8.41.6

॥26॥.
-र्व्_6:3।27-
यस्मिन् । विश्वानि । काव्या । चक्रे । नाभिः-इव । श्रिता । त्रितम् । जूती । सपर्यत । व्रजे । गावः । न । सम्-युजे । युजे । अश्वाम्न् । अयुक्षत । नभन्ताम् । अन्यके । समे

8.41.7

यः । आसु । अत्कः । आशये । विश्वा । जातानि । एषाम् । परि । धामानि । मर्मृशत् । वरुणस्य । पुरः । गयः । विश्वे । देवाः । अनु । व्रतम् । नभन्ताम् । अन्यके । समे

8.41.8

सः । समुद्रः । अपीच्यः । तुरः । द्याम्-इव । रोहति । नि । यत् । आसु । यजुः । दधे । सः । मायाः । अर्चिना । पदा । अस्तृणात् । नाकम् । आ । अरुहत् । नभन्ताम् । अन्यके । समे

8.41.9

यस्य । श्वेता । वि-चक्षणा । तिस्रः । भूमीः । अधि-क्षितः । त्रिः । उत्-तराणि । पप्रतुः । वरुणस्य । ध्रुवम् । सदः । सः । सप्तानाम् । इरज्यति । नभन्ताम् । अन्यके । समे

8.41.10

यः । श्वेतान् । अधि-निर्निजः । चक्रे । कृष्णान् । अनु । व्रता । सः । धाम । पूर्व्यम् । ममे । यः । स्कम्भेन । वि । रोदसी इति । अजः । न । द्याम् । अधारयत् । नभन्ताम् । अन्यके । समे

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc