भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 8.40

8.40.1

॥23॥.
-र्व्_6:3।24-
(र्व्_8,40)
इन्द्राग्नी इति । युवम् । सु । नः । सहन्ता । दासथः । रयिम् । येन । दृळ्हा । समत्-सु । आ । वीळु । चित् । सहिषीमहि । अग्निः । वनाइव । वाते । इत् । नभन्ताम् । अन्यके । समे

8.40.2

नहि । वाम् । वव्रयामहे । अथ । इन्द्रम् । इत् । यजामहे । शविष्ठम् । नृणाम् । नरम् । सः । नः । कदा । चित् । अर्वता । गमत् । आ । वाज-सातये । गमत् । आ । मेध-सातये । नभन्ताम् । अन्यके । समे

8.40.3

ता । हि । मध्यम् । भराणाम् । इन्द्राग्नी इति । अधि-क्षितः । ता । ओं इति । कवि-त्वना । कवी इति । पृच्छ्यमाना । सखी-यते । सम् । धीतम् । अश्नुतम् । नरा । नभन्ताम् । अन्यके । समे

8.40.4

अभि । अर्च । नभाक-वत् । इन्द्राग्नी इति । यजसा । गिरा । ययोः । विश्वम् । इदम् । जगत् । इयम् । द्यौः । पृथिवी । मही । उप-स्थे । बिभृतः । वसु । नभन्ताम् । अन्यके । समे

8.40.5

प्र । ब्रह्माणि । नभाक-वत् । इन्द्राग्नि-भ्याम् । इरज्यत । या । सप्त-बुध्नम् । अर्णवम् । जिह्म-बारम् । अप-ऊर्णुतः । इन्द्रः । ईशानः । ओजसा । नभन्ताम् । अन्यके । समे

8.40.6

अपि । वृश्च । पुराण-वत् । व्रततेः-इव । गुष्पितम् । ओजः । दासस्य । दम्भय । वयम् । तत् । अस्य । सम्-भृतम् । वसु । इन्द्रेण । वि । भजेमहि । नभन्ताम् । अन्यके । समे

8.40.7

॥24॥.
-र्व्_6:3।25-
यत् । इन्द्राग्नी इति । जनाः । इमे । वि-ह्वयन्ते । तना । गिरा । अस्माकेभिः । नृ-भिः । वयम् । ससह्याम । पृतन्यतः । वनुयाम । वनुष्यतः । नभन्ताम् । अन्यके । समे

8.40.8

या । नु । श्वेतौ । अवः । दिवः । उत्-चरातः । उप । द्यु-भिः । इन्द्राग्न्योः । अनु । व्रतम् । उहानाः । यन्ति । सिन्धवः । यान् । सीम् । बन्धात् । अमुञ्चताम् । नभन्ताम् । अन्यके । समे

8.40.9

पूर्वीः । ते । इन्द्र । उप-मातयः । पूर्वीः । उत । प्र-शस्तयः । सूनो इति । हिन्वस्य । हरि-वः । वस्वः । वीरस्य । आपृचः । या । नु । साधन्त । नः । धियः । नभन्ताम् । अन्यके । समे

8.40.10

तम् । शिशीत । सुवृक्ति-भिः । त्वेषम् । सत्वानम् । ऋग्मियम् । उतो इति । नु । चित् । यः । ओजसा । शुष्णस्य । आण्डानि । भेदति । जेषत् । स्वः-वतीः । अपः । नभन्ताम् । अन्यके । समे

8.40.11

तम् । शिशीत । सु-अध्वरम् । सत्यम् । सत्वानम् । ऋग्मियम् । उतो इति । नु । चित् । यः । ओजसा । शुष्णस्य । आण्डानि । भेदति । जेषत् । स्वः-वतीः । अपः । नभन्ताम् । अन्यके । समे

8.40.12

एव । इन्द्राग्नि-भ्याम् । पितृ-वत् नवीयः । मन्धातृ-वत् । अङ्गिरस्वत् । अवाचि । त्रि-धातुना । शर्मणा । पातम् । अस्मान् । वयम् । स्याम । पतयः । रयीणाम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc