ऋग्वेदसंहिता, पदपाठ · अध्याय 8.39
॥21॥.
-र्व्_6:3।22-
(र्व्_8,39)
अग्निम् । अस्तोषि । ऋग्मियम् । अग्निम् । ईळा । यजध्यै । अग्निः । देवान् । अनक्तु । नः । उभे इति । हि । विदथेइति । कविः । अन्तरिति । चरति । दूत्यम् । नभन्ताम् । अन्यके । समे
नि । अग्ने । नव्यसा । वचः । तनूषु । शंसम् । एषाम् । नि । अरातीः । रराव्णाम् । विश्वाः । अर्यः । अरातीः । इतः । युच्छन्तु । आमुरः । नभन्ताम् । अन्यके । समे
अग्ने । मन्मानि । तुभ्यम् । कम् । घृतम् । न । जुह्वे । आसनि । सः । देवेषु । प्र । चिकि द्धि । त्वम् । हि । असि । पूर्व्यः । शिवः । दूतः । विवस्वतः । नभन्ताम् । अन्यके । समे
तत्-तत् । अग्निः । वयः । दधे । यथायथा । कृपण्यति । ऊर्जाआहुतिः । वसूनाम् । शम् । च । योः । च । मयः । दधेविश्वस्यै देवहूत्यै । नभन्ताम् । अन्यके । समे
सः । चिकेत । सहीयसा । अग्निः । चित्रेण । कर्मणा । सः । होता । शश्वतीनाम् । दक्षिणाभिः । अभि-वृतः । इनोति । च । प्रतीव्यम् । नभन्ताम् । अन्यके । समे
॥22॥.
-र्व्_6:3।23-
अग्निः । जाता । देवानाम् । अग्निः । वेद । मर्तानाम् । अपीच्यम् । अग्निः । सः । द्रविणः-दाः । अग्निः । द्वारा । वि । ऊर्णुते । सु-आहुतः । नवीयसा । नभन्ताम् । अन्यके । समे
अग्निः । देवेषु । सम्-वसुः । सः । विक्षु । यज्ञियासु । आ । सः । मुदा । काव्या । पुरु । विश्वम् । भूम-इव । पुष्यति । देवः । देवेषु । यज्ञियः । नभन्ताम् । अन्यके । समे
यः । अग्निः । सप्त-मानुषः । श्रितः । विश्वेषु । सिन्धुषु । तम् । आ । अगन्म । त्रि--पस्त्यम् । मन्धातुः । दस्युहन्-तमम् । अग्निम् । यज्ञेषु । पूर्व्यम् । नभन्ताम् । अन्यके । समे
अग्निः । त्रीणि । त्रि-धातूनि । आ । क्षेति । विदथा । कविः । सः । त्रीन् । एकादशान् । इह । यक्षत् । च । पिप्रयत् । च । नः । विप्रः । दूतः । परि-कृतः । नभन्ताम् । अन्यके । समे
त्वम् । नः । अग्ने । आयुषु । त्वम् । देवेषु । पूर्व्य । वस्वः । एकः । इरज्यसि । त्वाम् । आपः । परि-स्रुतः । परि । यन्ति । स्व-सेतवः । नभन्ताम् । अन्यके । समे
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0