ऋग्वेदसंहिता, पदपाठ · अध्याय 8.38
॥19॥.
-र्व्_6:3।20-
(र्व्_8,38)
यज्ञस्य । हि । स्थः । ऋत्विजा । सस्नी इति । वाजेषु । कर्मसु । इन्द्राग्नी इति । तस्य । बोधतम्
तोषासा । रथ-यावाना । वृत्र-हना । अपराजिता । इन्द्राग्नी इति । तस्य । बोधतम्
इदम् । वाम् । मदिरम् । मधु । अधुक्षन् । अद्रि-भिः । नरः । इन्द्राग्नी इति । तस्य । बोधतम्
जुषेथाम् । यज्ञम् । इष्टये । सुतम् । सोमम् । सधस्तुती इतिसध-स्तुती । इन्द्राग्नी इति । आ । गतम् । नरा
इमा । जुषेथाम् । सवना । येभिः । हव्यानि । ऊहथुः । इन्द्राग्नी इति । आ । गतम् । नरा
इमाम् । गायत्र-वर्तनिम् । जुषेथाम् । सु-स्तुतिम् । मम । इन्द्राग्नी इति । आ । गतम् । नरा
॥20॥.
-र्व्_6:3।21-
प्रातर्याव-भिः । आ । गतम् । देवेभिः । जेन्यावसूइति । इन्द्राग्नी इति । सोम-पीतये
श्याव-अश्वस्य । सुन्वतः । अत्रीणाम् । शृणुतम् । हवम् । इन्द्राग्नी इति । सोम-पीतये
एव । वाम् । अह्वे । ऊतये । यथा । अहुवन्त । मेधिराः । इन्द्राग्नी इति । सोम-पीतये
आ । अहम् । सरस्वती-वतोः । इन्द्राग्न्योः । अवः । वृणे । याभ्याम् । गायत्रम् । ऋच्यते
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0