भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 8.37

8.37.1

॥18॥.
-र्व्_6:3।19-
(र्व्_8,37)
प्र । इदम् । ब्रह्म । वृत्र-तूर्येषु । आविथ । प्र । सुन्वतः । शची-पते । इन्द्र । विश्वाभिः । ऊति-भिः । माध्यन्दिनस्य । सवनस्य । वृत्र-हन् । अनेद्य । पिब । सोमस्य । वज्रि-वः

8.37.2

सेहानः । उग्र । पृतनाः । अभि । द्रुहः । शची-पते । इन्द्र । विश्वाभिः । ऊति-भिः । माध्यन्दिनस्य । सवनस्य । वृत्र-हन् । अनेद्य । पिब । सोमस्य । वज्र् इ-वः

8.37.3

एक-राट् । अस्य । भुवनस्य । राजसि । शची-पते । इन्द्र । विश्वाभिः । ऊति-भिः । माध्यन्दिनस्य । सवनस्य । वृत्र-हन् । अनेद्य । पिब । सोमस्य । वज्रि--वः

8.37.4

स-स्थावाना । यवयसि । त्वम् । एकः । इत् । शची-पते । इन्द्र । विश्वाभिः । ऊति-भ् इः । माध्यन्दिनस्य । सवनस्य । वृत्र-हन् । अनेद्य । पिब । सोमस्य । वज्रि-वः

8.37.5

क्षेमस्य । च । प्र-युजः । च । त्वम् । ईशिषे । शची-पते । इन्द्र । विश्वाभिः । ऊति--भिः । माध्यन्दिनस्य । सवनस्य । वृत्र-हन् । अनेद्य । पिब । सोमस्य । वज्रि-वः

8.37.6

क्षत्राय । त्वम् । अवसि । न । त्वम् । आविथ । शची-पते । इन्द्र । विश्वाभिः । ऊति-भिः । माध्यन्दिनस्य । सवनस्य । वृत्र-हन् । अनेद्य । पिब । सोमस्य । वज्रि-वः

8.37.7

श्याव-अश्वस्य । रेभतः । तथा । शृणु । यथा । अशृणोः । अत्रेः । कर्माणि । कृण्वतः । प्र । त्रसदस्युम् । आविथ । त्वम् । एकः । इत् । नृ-सह्ये । इन्द्र । ब्रह्माणि । वर्धयन्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc