भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 8.36

8.36.1

॥17॥.
-र्व्_6:3।18-
(र्व्_8,36)
अविता । असि । सुन्वतः । वृक्त-बर्हिषः । पिब । सोमम् । मदाय । कम् । शतक्रतो इतिशत-क्रतो । यम् । ते । भागम् । अधारयन् । विश्वाः । सेहानः । पृतनाः । उरु । ज्रयः । सम् । अप्सु-जित् । मरुत्वान् । इन्द्र । सत्-पते

8.36.2

प्र । अव । स्तोतारम् । मघ-वन् । अव । त्वाम् । पिब । सोमम् । मदाय । कम् । शतक्रतो इतिशत-क्रतो । यम् । ते । भागम् । अधारयन् । विश्वाः । सेहानः । पृतनाः । उरु । ज्रयः । सम् । अप्सु-जित् । मरुत्वान् । इन्द्र । सत्-पते

8.36.3

ऊर्जा । देवान् । अवसि । ओजसा । त्वाम् । पिब । सोमम् । मदाय । कम् । शतक्रतो इतिशत-क्रतो । यम् । ते । भागम् । अधारयन् । विश्वाः । सेहानः । पृतनाः । उरु । ज्रयः । सम् । अप्सु-जित् । मरुत्वान् । इन्द्र । सत्-पते

8.36.4

जनिता । दिवः । जनिता । पृथिव्याः । पिब । सोमम् । मदाय । कम् । शतक्रतो इतिशत-क्रतो । यम् । ते । भागम् । अधारयन् । विश्वाः । सेहानः । पृतनाः । उरु । ज्रयः । सम् । अप्सु-जित् । मरुत्वान् । इन्द्र । सत्-पते

8.36.5

जनिता । अश्वानाम् । जनिता । गवाम् । असिपिब । सोमम् । मदाय । कम् । शतक्रतो इतिशत-क्रतो । यम् । ते । भागम् । अधारयन् । विश्वाः । सेहानः । पृतनाः । उरु । ज्रयः । सम् । अप्सु-जित् । मरुत्वान् । इन्द्र । सत्-पते

8.36.6

अत्रीणाम् । स्तोमम् । अद्रि-वः । महः । कृधि । पिब । सोमम् । मदाय । कम् । शतक्रतो इतिशत-क्रतो । यम् । ते । भागम् । अधारयन् । विश्वाः । सेहानः । पृतनाः । उरु । ज्रयः । सम् । अप्सु-जित् । मरुत्वान् । इन्द्र । सत्-पते

8.36.7

श्याव-अश्वस्य । सुन्वतः । तथा । शृणु । यथा । अशृणोः । अत्रेः । कर्माणि । कृण्वतः । प्र । त्रसदस्युम् । आविथ । त्वम् । एकः । इत् । नृ-सह्ये । इन्द्र । ब्रह्माणि । वर्धयन्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc