ऋग्वेदसंहिता, पदपाठ · अध्याय 8.33
॥6॥.
-र्व्_6:3।7-
(र्व्_8,33)
वयम् । घ । त्वा । सुत-वन्तः । आपः । न । वृक्त-बर्हिषः । पवित्रस्य । प्र-स्रवणेषु । वृत्र-हन् । परि । स्तोतारः । आसते
स्वरन्ति । त्वा । सुते । नरः । वसो इति । निरेके । उक्थिनः । कदा । सुतम् । तृषाणः । ओकः । आ । गमः । इन्द्र । स्वब्दी-इव । वंसगः
कण्वेभिः । धृष्णो इति । आ । धृषत् । वाजम् । दर्षि । सहस्रिणम् । पिशङ्ग-रूपम् । मघ-वन् । वि-चर्षणे । मक्षु । गो--मन्तम् । ईमहे
पाहि । गाय । अन्धसः । मदे । इन्द्राय । मेध्य-अतिथे । यः । सम्-मिश्लः । हर्योः । यः । सुते । सचा । वज्री । रथः । हिरण्ययः
यः । सु-सव्यः । सु-दक्षिणः । इनः । यः । सु-क्रतुः । गृणे । यः । आकरः । सहस्रा । यः । शत-मघः । इन्द्रः । यः । पूः-भित् । आरितः
॥7॥.
-र्व्_6:3।8-
यः । धृषितः । यः । अवृतः । यः । अस्ति । श्मश्रुषु । श्रितः । विभूत-द्युम्नः । च्यवनः । पुरु-स्तुतः । क्रत्वा । गौः-इव । शाकिनः
कः । ईम् । वेद । सुते । सचा । पिबन्तम् । कत् । वयः । दधे । अयम् । यः । पुरः । वि-भिनत्ति । ओजसा । मन्दानः । शिप्री । अन्धसः
दाना । मृगः । न । वारणः । पुरु-त्रा । चरथम् । दधे । नकिः । त्वा । नि । यमत् । आ । सुते । गमः । महान् । चरसि । ओजसा
यः । उग्रः । सन् । अनिः-स्तृतः । स्थिरः । रणाय । संस्कृतः । यदि । स्तोतुः । मघ-वा । शृणवत् । हवम् । न । इन्द्रः । योषति । आ । गमत्
सत्यम् । इत्था । वृषा । इत् । असि । वृष-जूतिः । नः । अवृतः । वृषा । हि । उग्र । शृण्विषे । परावति । वृषः । अर्वावति । श्रुतः
॥8॥.
-र्व्_6:3।9-
वृषणः । ते । अभीशवः । वृषा । कशा । हिरण्ययी । वृषा । रथः । मघ-वन् । वृषणा । हरी इति । वृषा । त्वम् । शतक्रतो इतिशत-क्रतो
वृषा । सोता । सुनोतु । ते । वृषन् । ऋजीपिन् । आ । भर । वृषा । दधन्वे । वृषणम् । नदीषु । आ । तुभ्यम् । स्थातः । हरीणाम्
आ । इन्द्र । याहि । पीतये । मधु । शविष्ठ । सोम्यम् । न । अयम् । अच्छ । मघ-वा । शृणवत् । गिरः । ब्रह्म । उक्था । च । सु-क्रतुः
वहन्तु । त्वा । रथेस्थाम् । आ । हरयः । रथ-युजः । तिरः । चित् । अर्यम् । सवनानि । वृत्र-हन् । अन्येषाम् । या । शतक्रतो इतिशत-क्रतो
अस्माकम् । अद्य । अन्तमम् । स्तोमम् । धिष्व । महामह । अस्माकम् । ते । सवना । सन्तु । शम्-तमा । मदाय । द्युक्ष । सोम-पाः
॥9॥.
-र्व्_6:3।10-
नहि । सः । तव । नः । मम । शास्त्रे । अन्यस्य । रण्यति । यः । अस्मान् । वीरः । आ । अनयत्
इन्द्रः । चित् । घ । तत् । अब्रवीत् । स्त्रियाः । अशास्यम् । मनः । उतो इति । अह । क्रतुम् । रघुम्
सप्ती इति । चित् । घ । मद-च्युता । मिथुना । वहतः । रथम् । एव । इत् । धूः । वृष्णः । उत्-तरा
अधः । पश्यस्व । मा । उपरि । सम्-तराम् । पादकौ । हर । मा । ते । कश-प्लकौ । दृशन् । स्त्री । हि । ब्रह्मा । बभूविथ
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0