ऋग्वेदसंहिता, पदपाठ · अध्याय 8.34
॥10॥.
-र्व्_6:3।11-
(र्व्_8,34)
आ । इन्द्र । याहि । हरि-भिः । उप । कण्वस्य । सु-स्तुतिम् । दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इतिदिवावसो
आ । त्वा । ग्रावा । वदन् । इह । सोमी । घोषेण । यच्छतु । दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इतिदिवावसो
अत्र । वि । नेमिः । एषाम् । उराम् । न । धूनुते । वृकः । दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इतिदिवावसो
आ । त्वा । कण्वाः । इह । अवसे । हवन्ते । वाज-सातये । दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इतिदिवावसो
दधामि । ते । सुतानाम् । वृष्णे । न । पूर्व-पाय्यम् । दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इतिदिवावसो
॥11॥.
-र्व्_6:3।12-
स्मत्-पुरन्धिः । नः । आ । गहि । विश्वतः-धीः । नः । ऊतये । दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इतिदिवावसो
आ । नः । याहि । महे--मते । सहस्र-ऊते । शत-मघ । दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इतिदिवावसो
आ । त्वा । होता । मनुः-हितः । देव-त्रा । वक्षत् । ईड्यः । दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इतिदिवावसो
आ । त्वा । मद-च्युता । हरी इति । श्येनम् । पक्षाइव । वक्षतः । दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इतिदिवावसो
आ । याहि । अर्यः । आ । परि । स्वाहा । सोमस्य । पीतये । दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इतिदिवावसो
॥12॥.
-र्व्_6:3।13-
आ । नः । याहि । उप-श्रुति । उक्थेषु । रणय । इह । दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इतिदिवावसो
स-रूपैः । आ । सु । नः । गहि । सम्-भृतैः । सम्भृत-अश्वः । दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इतिदिवावसो
आ । याहि । पर्वतेभ्यः । समुद्रस्य । अधि । विष्टपः । दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इतिदिवावसो
आ । नः । गव्यानि । अश्व्या । सहस्रा । शूर । दर्दृहि । दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इतिदिवावसो
आ । नः । सहस्र-शः । भर । अयुतानि । शतानि । च । दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इतिदिवावसो
आ । यत् । इन्द्रः । च । दद्वहे इति । सहस्रम् । वसु-रोचिषः । ओजिष्ठम् । अश्व्यम् । पशुम्
ये । ऋज्राः । वात-रंहसः । अरुषासः । रघु-स्यदः । भ्राजन्ते । सूर्याः-इव
पारावतस्य । रातिषु । द्रवत्-चक्रेषु । आशुषु । तिष्ठम् । वनस्य । मध्ये । आ
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0