भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 8.32

8.32.1

॥40॥.
-र्व्_6:3।1-
(र्व्_8,32)
प्र । कृतानि । ऋजीषिणः । कण्वाः । इन्द्रस्य । गाथया । मदे । सोमस्य । वोचत

8.32.2

यः । सृबिन्दम् । अनर्शनिम् । पिप्रुम् । दासम् । अहीशुवम् । वधीत् । उग्रः । रिणन् । अपः

8.32.3

नि । अर्बुदस्य । विष्टपम् । वर्ष्माणम् । बृहतः । तिर । कृषे । तत् । इन्द्र । पैंस्यम्

8.32.4

प्रति । श्रुताय । वः । धृषत् । तूर्णाशम् । न । गिरेः । अधि । हुवे । सु-शिप्रम् । ऊतये

8.32.5

सः । गोः । अश्वस्य । वि । व्रजम् । मन्दानः । सोम्येभ्यः । पुरम् । न । शूर । दर्षसि

8.32.6

॥1॥.
-र्व्_6:3।2-
यदि । मे । ररणः । सुते । उक्थे । वा । दधसे । चनः । आरात् । उप । स्वधा । आ । गहि

8.32.7

वयम् । घ । ते । अपि । स्मसि । स्तोतारः । इन्द्र । गिर्वणः । त्वम् । नः । जिन्व । सोम-पाः

8.32.8

उत । नः । पितुम् । आ । भर । सम्-रराणः । अवि-क्षितम् । मघ-वन् । भूरि । ते । वसु

8.32.9

उत । नः । गो-मतः । कृधि । हिरण्य-वतः । अश्विनः । इळाभिः । सम् । रभेमहि

8.32.10

बृबत्-उक्थम् । हवामहे । सृप्र-करस्नम् । ऊतये । साधु । कृण्वन्तम् । अवसे

8.32.11

॥2॥.
-र्व्_6:3।3-
यः । सम्-स्थे । चित् । शत-क्रतुः । आत् । ईम् । कृणोति । वृत्र-हा । जरितृ-भ्यः । पुरु-वसुः

8.32.12

सः । नः । शक्रः । चित् । आ । शकत् । दान-वान् । अन्तर-आभरः । इन्द्रः । विश्वाभिः । ऊति-भिः

8.32.13

यः । रायः । अवनिः । महान् । सु-पारः । सुन्वतः । सखा । तम् । इन्द्रम् । अभि । गायत

8.32.14

आयन्तारम् । महि । स्थिरम् । पृतनासु । श्रवः-जितम् । भूरेः । ईशानम् । ओजसा

8.32.15

नकिः । अस्य । शचीनाम् । नि-यन्ता । सूनृतानाम् । नकिः । वक्ता । न । दात् । इति

8.32.16

॥3॥.
-र्व्_6:3।4-
न । नूनम् । ब्रह्मणाम् । ऋणम् । प्राशूनाम् । अस्ति । सुन्वताम् । न । सोमः । अप्रता । पपे

8.32.17

पन्ये । इत् । उप । गायत । पन्ये । उक्थानि । शंसत । ब्रह्म । कृणोत । पन्ये । इत्

8.32.18

पन्यः । आ । दर्दिरत् । शता । सहस्रा । वाजी । अवृतः । इन्द्रः । यः । यज्वनः । वृधः

8.32.19

वि । सु । चर । स्वधाः । अनु । कृष्टीनाम् । अनु । आहुवः । इन्द्र । पिब । सुतानाम्

8.32.20

पिब । स्व-धैनवानाम् । उत । यः । तुग्र्ये । सचा । उत । अयम् । इन्द्र । यः । तव

8.32.21

॥4॥.
-र्व्_6:3।5-
अति । इहि । मन्यु-साविनम् । सुसु-वांसम् । उप-अरणे । इमम् । रातम् । सुतम् । पिब

8.32.22

इहि । तिस्रः । परावतः । इहि । पञ्च । जनान् । अति । धेनाः । इन्द्र । अव-चाकशत्

8.32.23

सूर्यः । रश्मिम् । यथा । सृज । त्वा । यच्छन्तु । मे । गिरः । निम्नम् । आपः । न । सध्र्यक्

8.32.24

अध्वर्यो इति । आ । तु । हि । सिञ्च । सोमम् । वीराय । शिप्रिणे । भर । सुतस्य । पीतये

8.32.25

यः । उद्नः । फलि-गम् । भिनत् । न्यक् । सिन्धून् । अव-असृजत् । यः । गोषु । पक्वम् । धारयत्

8.32.26

॥5॥.
-र्व्_6:3।6-
अहन् । वृत्रम् । ऋचीषमः । और्ण-वाभम् । अहीशुवम् । हिमेन । अविध्यत् । अर्बुदम्

8.32.27

प्र । वः । उग्राय । निः-तुरे । अषाळ्हाय । प्र-सक्षिणे । देवत्तम् । ब्रह्म । गायत

8.32.28

यः । विश्वानि । अभि । व्रता । सोमस्य । मदे । अन्धसः । इन्द्रः । देवेषु । चेतति

8.32.29

इह । त्या । सध-माद्या । हरी इति । हिरण्य-केश्या । वोळ्हाम् । अभि । प्रयः । हितम्

8.32.30

अर्वाञ्चम् । त्वा । पुरु-स्तुत । प्रियमेध-स्तुता । हरी इति । सोम-पेयाय । वक्षतः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc