भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 8.24

8.24.1

॥14॥.
-र्व्_6:2।15-
(र्व्_8,24)
सखायः । आ । शिषामहि । ब्रह्म । इन्द्राय । वज्रिणे । स्तुषे । ओं इति । सु । वः । नृ-तमाय । धृष्णवे

8.24.2

शवसा । हि । असि । श्रुतः । वृत्र-हत्येन । वृत्र-हा । मघैः । मघोनः । अति । शूर । दाशसि

8.24.3

सः । नः । स्तवानः । आ । भर । रयिम् । चित्रश्रवः-तमम् । निरेके । चित् । यः । हरि-वः । वसुः । ददिः

8.24.4

आ । निरेकम् । उत । प्रियम् । इन्द्र । दर्षि । जनानाम् । धृषता । धृष्णो इति । स्तवमानः । आ । भर

8.24.5

न । ते । सव्यम् । न । दक्षिणम् । हस्तम् । वरन्ते । आमुरः । न । परि-बाधः । हरि-वः । गो--इष्टिषु

8.24.6

॥15॥.
-र्व्_6:2।16-
आ । त्वा । गोभिः-इव । व्रजम् । गीः-भिः । ऋणोमि । अद्रि-वः । आ । स्म । कामम् । जरितुः । आ । मनः । पृण

8.24.7

विश्वानि । विश्व-मनसः । धिया । नः । वृत्रहन्-तम । उग्र । प्रनेतरित् इप्र-नेतः । अधि । सु । वसो इति । गहि

8.24.8

वयम् । ते । अस्य । वृत्र-हन् । विद्याम । शूर । नव्यसः । वसोः । स्पार्हस्य । पुरु-हूत । राधसः

8.24.9

इन्द्र । यथा । हि । अस्ति । ते । अपरि-इतम् । नृतो इति । शवः । अमृक्ता । रातिः । पुरु-हूत । दाशुषे

8.24.10

आ । वृषस्व । महामह । महे । नृ-तम । राधसे । दृळ्हः । चित् । दृह्य । मघ-वन् । मघत्तये

8.24.11

॥16॥.
-र्व्_6:2।17-
नु । अन्यत्र । चित् । अद्रि-वः । त्वत् । नः । जग्मुः । आशसः । मघ-वन् । शग्धि । तव । तत् । नः । ऊति-भिः

8.24.12

नहि । अङ्ग । नृतो इति । त्वत् । अन्यम् । विन्दामि । राधसे । राये । द्युम्नाय । शवसे । च । गिर्वणः

8.24.13

आ । इन्दुम् । इन्द्राय । सिञ्चत । पिबाति । सोम्यम् । मधु । प्र । राधसा । चोदयाते । महि-त्वना

8.24.14

उपो इति । हरीणाम् । पतिम् । दक्षम् । पृञ्चन्तम् । अब्रवम् । नूनम् । श्रुधि । स्तुवतः । अश्व्यस्य

8.24.15

नहि । अङ्ग । पुरा । चन । जज्ञे । वीर-तरः । त्वत् । नकिः । राया । न । एव-था । न । भन्दना

8.24.16

॥17॥.
-र्व्_6:2।18-
आ । इत् । ओं इति । मध्वः । मदिन्-तरम् । सिञ्च । वा । अध्वर्यो इति । अन्धसः । एव । हि । वीरः । स्तवते । सदावृधः

8.24.17

इन्द्र । स्थातः । हरीणाम् । नकिः । ते । पूर्व्य-स्तुतिम् । उत् । आनंश । शवसा । न । भन्दना

8.24.18

तम् । वः । वाजानाम् । पतिम् । अहूमहि । श्रवस्यवः । अप्रायु-भिः । यज्ञेभिः । ववृधेन्यम्

8.24.19

एतो इति । नु । इन्द्रम् । स्तवाम । सखायः । स्तोम्यम् । नरम् । कृष्टीः । यः । विश्वाः । अभि । अस्ति । एकः । इत्

8.24.20

अगो--रुधाय । गो--इषे । द्युक्षाय । दस्म्यम् । वचः । घृतात् । स्वादीयः । मधुनः । च । वोचत

8.24.21

॥18॥.
-र्व्_6:2।19-
यस्य । अमितानि । वीर्या । न । राधः । परि-एतवे । ज्योतिः । न । विश्वम् । अभि । अस्ति । दक्षिणा

8.24.22

स्तुहि । इन्द्रम् । व्यश्व-वत् । अनूर्मिम् । वाजिनम् । यमम् । अर्यः । गयम् । मंहमानम् । वि । दाशुषे

8.24.23

एव । नूनम् । उप । स्तुहि । वैयश्व । दशमम् । नवम् । सु-विद्वांसम् । चर्कृत्यम् । चरणीनाम्

8.24.24

वेत्थ । हि । निः-ऋतीनाम् । वज्र-हस्त । परि-वृजम् । अहः-अहः । शुन्ध्युः । परिपदाम्-इव

8.24.25

तत् । इन्द्र । अवः । आ । भर । येन । दंसिष्ठ । कृत्वने । द्विता । कुत्साय । शिश्नथः । नि । चोदय

8.24.26

॥19॥.
-र्व्_6:2।20-
तम् । ओं इति । त्वा । नूनम् । ईमहे । नव्यम् । दंसिष्ठ । सन्यसे । सः । त्वम् । नः । वि श्वाः । अभि-मातीः । सक्षणिः

8.24.27

यः । ऋक्षात् । अंहसः । मुचत् । यः । वा । आर्यात् । सप्त । सिन्धुषु । वधः । दासस्य । तुवि-नृम्ण । नीनमः

8.24.28

यथा । वरो इति । सु-साम्णे । सनि-भ्यः । आ । अवहः । रयिम् । वि-अश्वेभ्यः । सु-भगे । वाज् इनी-वति

8.24.29

आ । नार्यस्य । दक्षिणा । वि-अश्वान् । एतु । सोमिनः । स्थूरम् । च । राधः । शत-वत् । सहस्र-वत्

8.24.30

यत् । त्वा । पृच्छात् । ईजानः । कुहया । कुहयाकृते । एषः । अप-श्रितः । वलः । गो--मतीम् । अव । तिष्ठति

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc