भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 8.23

8.23.1

॥8॥.
-र्व्_6:2।9-
(र्व्_8,23)
ईळिष्व । हि । प्रतीव्यम् । यजस्व । जात-वेदसम् । चरिष्णु-धाऊमम् । अगृभीत-शोचिषम्

8.23.2

दामानम् । विश्व-चर्षणे । अग्निम् । विश्व-मनः । गिरा । उत । स्तुषे । वि-स्पधर्सः । रथानाम्

8.23.3

येषाम् । आबाधः । ऋग्मियः । इषः । पृक्षः । च । नि-ग्रभे । उप-विदा । वह्निः । विन्दते । वसु

8.23.4

उत् । अस्य । शोचिः । अस्थात् । दीदियुषः । वि । अजरम् । तपुः-जम्भस्य । सु-द्युतः । गण-श्रियः

8.23.5

उत् । ओं इति । तिष्ठ । सु-अध्वर । स्तवानः । देव्या । कृपा । अभि-ख्या । भासा । बृहता । शुशुक्वनिः

8.23.6

॥9॥.
-र्व्_6:2।10-
अग्ने । याहि । सुशस्ति-भिः । हव्या । जुह्वानः । आनुषक् । यथा । दूतः । बभूथ । हव्य-वाहनः

8.23.7

अग्निम् । वः । पूर्व्यम् । हुवे । होतारम् । चर्षणीनाम् । तम् । अया । वाचा । गृणे । तम् । ओं इति । वः । स्तुषे

8.23.8

यज्ञेभिः । अद्भुत-क्रतुम् । यम् । कृपा । सूदयन्ते । इत् । मित्रम् । न । जने । सु-धि तम् । ऋत-वनि

8.23.9

ऋत-वानम् । ऋत-यवः । यज्ञस्य । साधनम् । गिरा । उषः । एनम् । जुजुषुः । नमसः । पदे

8.23.10

अच्छ । नः । अङ्गिरः-तमम् । यज्ञासः । यन्तु । सम्-यतः । होता । यः । अस्ति । विक्षु । आ । यशः-तमः

8.23.11

॥10॥.
-र्व्_6:2।11-
अग्ने । तव । त्ये । अजर । इन्धानासः । बृहत् । भाः । अश्वाः-इव । वृषणः । तवि षी-यवः

8.23.12

सः । त्वम् । नः । ऊर्जाम् । पते । रयिम् । रास्व । सु-वीर्यम् । प्र । अव । नः । तोके । तनये । समत्-सु । आ

8.23.13

यत् । वै । ओं इति । विश्पतिः । शितः । सु-प्रीतः । मनुषः । विशि । विश्वा । इत् । अग्निः । प्रति । रक्षांसि । सेधति

8.23.14

श्रुष्टी । अग्ने । नवस्य । मे । स्तोमस्य । वीर । विश्पते । नि । मायिनः । तपुषा । रक्षसः । दह

8.23.15

न । तस्य । मायया । चन । रिपुः । ईशीत । मर्त्यः । यः । अग्नये । ददाश । हव्यदाति-भिः

8.23.16

॥11॥.
-र्व्_6:2।12-
वि-अश्वः । त्वा । वसु-विदम् । उक्षण्युः । अप्रीणात् । ऋषिः । महः । राये । तम् । ओं इति । त्वा । सम् । इधीमहि

8.23.17

उशना । काव्यः । त्वा । नि । होतारम् । असादयत् । आयजिम् । त्वा । मनवे । जात-वेदसम्

8.23.18

विश्वे । हि । त्वा । स-जोषसः । देवासः । दूतम् । अक्रत । श्रुष्टी । देव । प्रथमः । यज्ञियः । भुवः

8.23.19

इमम् । घ । वीरः । अमृतम् । दूतम् । कृण्वीत । मर्त्यः । पावकम् । कृष्ण-वर्तनि म् । वि-हायसम्

8.23.20

तम् । हुवेम । यत-स्रुचः । सु-भासम् । शुक्र-शोचिषम् । विशाम् । अग्निम् । अजरम् । प्रत्नम् । ईड्यम्

8.23.21

॥12॥.
-र्व्_6:2।13-
यः । अस्मै । हव्यदाति-भिः । आहुतिम् । मर्तः । अविधत् । भूरि । पोषम् । सः । धत्ते । वीर-वत् । यशः

8.23.22

प्रथमम् । जात-वेदसम् । अग्निम् । यज्ञेषु । पूर्व्यम् । प्रति । स्रुक् । एति । नमसा । हविष्मती

8.23.23

आभिः । विधेम । अग्नये । ज्येष्ठाभिः । व्यश्व-वत् । मंहिष्ठाभिः । मति-भिः । शुक्र-शोचिषे

8.23.24

नूनम् । अर्च । वि-हायसे । स्तोमेभिः । स्थूरयूप-वत् । ऋषे । वैयश्व । दम्याय । अग्नये

8.23.25

अतिथिम् । मानुषाणाम् । सूनुम् । वनस्पतीनाम् । विप्राः । अग्निम् । अवसे । प्रत्नम् । ईळते

8.23.26

॥13॥.
-र्व्_6:2।14-
महः । विश्वान् । अभि । सतः । अभि । हव्यानि । मानुषा । अग्ने । नि । सत्सि । नमसा । अधि । बर्हिषि

8.23.27

वंस्व । नः । वार्या । पुरु । वंस्व । रायः । पुरु-स्पृहः । सु-वीर्यस्य । प्रजावतः । यशस्वतः

8.23.28

त्वम् । वरो इति । सु-षाम्णे । अग्ने । जनाय । चोदय । सदा । वसो इति । रातिम् । यविष्ठ । शश्वते

8.23.29

त्वम् । हि । सु-प्रतूः । असि । त्वम् । नः । गो--मतीः । इषः । महः । रायः । सात् इम् । अग्ने । अप । वृधि

8.23.30

अग्ने । त्वम् । यशाः । असि । आ । मित्रावरुणा । वह । ऋत-वाना । सम्-राजा । पूत-दक्षसा

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc