भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 8.22

8.22.1

॥4॥.
-र्व्_6:2।5-
(र्व्_8,22)
ओ इति । त्यम् । अह्वे । आ । रथम् । अद्य । दंसिष्ठम् । ऊतये । यम् । अश्विना । सु-हवा । रुद्र-वर्तनी इतिरुद्र-वर्तनी । आ । सूर्यायै । तस्थथुः

8.22.2

पूर्व-आपुषम् । सु-हवम् । पुरु-स्पृहम् । भुज्युम् । वाजेषु । पूर्व्यम् । सचनावन्तम् । सुमति-भिः । सोभरे । वि-द्वेषसम् । अनेहसम्

8.22.3

इह । त्या । पुरु-भूतमा । देवा । नमः-भिः । अश्विना । अर्वाचीना । सु । अवसे । करामहे । गन्तारा । दाशुषः । गृहम्

8.22.4

युवः । रथस्य । परि । चक्रम् । ईयते । ईर्मा । अन्यत् । वाम् । इषण्यति । अस्मान् । अच्छ । सु-मतिः । वाम् । शुभः । पती इति । आ । धेनुः-इव । धावतु

8.22.5

रथः । यः । वाम् । त्रि-वन्धुरः । हिरण्य-अभीशुः । अश्विना । परि । द्यावापृथ् इवी इति । भूषति । श्रुतः । तेन । नासत्या । आ । गतम्

8.22.6

॥5॥.
-र्व्_6:2।6-
दशस्यन्ता । मनवे । पूर्व्यम् । दिवि । यवम् । वृकेण । कर्षथः । ता । वाम् । अद्य । सुमति-भिः । शुभः । पती इति । अश्विना । प्र । स्तुवीमहि

8.22.7

उप । नः । वाजिनीवसूइतिवाजिनी-वसू । यातम् । ऋतस्य । पथि-भिः । येभिः । तृक्षिम् । वृषणा । त्रासदस्यवम् । महे । क्षत्राय । जिन्वथः

8.22.8

अयम् । वाम् । अद्रि-भिः । सुतः । सोमः । नरा । वृषण्वसूइतिवृषण्-वसू । आ । यातम् । सोम-पीतये । पिबतम् । दाशुषः । गृहे

8.22.9

आ । हि । रुहतम् । अश्विना । रथे । कोशे । हिरण्यये । वृषण्वसूइतिवृषण्-वसू । युञ्जाथाम् । पीवरीः । इषः

8.22.10

याभिः । पक्थम् । अवथः । याभिः । अध्रि-गुम् । याभिः । बभ्रुम् । वि-जोषसम् । ताभिः । नः । मक्षु । तूयम् । अश्विना । आ । गतम् । भिषज्यतम् । यत् । आतुरम्

8.22.11

॥6॥.
-र्व्_6:2।7-
यत् । अध्रि-गावः । अध्रिगूइत्य् अध्रि-गू । इदा । चित् । अह्नः । अश्विना । हवामहे । वयम् । गीः-भिः । विपन्यवः

8.22.12

ताभिः । आ । यातम् । वृषणा । उप । मे । हवम् । विश्व-प्सुम् । विश्व-वार्यम् । इषा । मंहिष्ठा । पुरु-भूतमा । नरा । याभिः । क्रिविम् । ववृधुः । ताभिः । आ । गतम्

8.22.13

तौ । इदा । चित् । अहानाम् । तौ । अश्विना । वन्दमानः । उप । ब्रुवे । तौ । ओं इति । नमः-भिः । ईमहे

8.22.14

तौ । इत् । दोषा । तौ । उषसि । शुभः । पती इति । ता । यामन् । रुद्रवर्तनी इतिरुद्र-वर्तनी । मा । नः । मर्ताय । रिपवे । वाजिनीवसूइतिवाजिनी-वसू । परः । रुद्रौ । अति । ख्यतम्

8.22.15

आ । सुग्म्याय । सुग्म्यम् । प्रातरिति । रथेन । अश्विना । वा । सक्षणी इति । हुवे । पिताइव । सोभरी

8.22.16

॥7॥.
-र्व्_6:2।8-
मनः-जवसा । वृषणा । मद-च्युता । मक्षुम्-गमाभिः । ऊति-भिः । आरात्तात् । चित् । भूतम् । अस्मे इति । अवसे । पूर्वी-भिः । पुरु-भोजसा

8.22.17

आ । नः । अश्व-वत् । अश्विना । वर्तिः । यासिष्टम् । मधु-पातमा । नरा । गो--मत् । दस्रा । हिरण्य-वत्

8.22.18

सु-प्रावर्गम् । सु-वीर्यम् । सुष्ठु । वार्यम् । अनाधृष्टम् । रक्षस्विना । अस्मिन् । आ । वाम् । आयाने । वाजिनीवसूइतिवाजिनी-वसू । विश्वा । वामानि । धीमहि

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc