भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 8.2

8.2.1

॥16॥.
-र्व्_5:7।17-
(र्व्_8,2)
इदम् । वसो
इति । सुतम् । अन्धः । पिब । सु-पूर्णम् । उदरम् । अनाभयिन् । ररिम । ते

8.2.2

नृ-भिः । धूतः । सुतः । अश्नैः । अव्यः । वारैः । परि-पूतः । अश्वः । न । निक्तः । नदीषु

8.2.3

तम् । ते । यवम् । यथा । गोभिः । स्वादुम् । अकर्म । श्रीणन्तः । इन्द्र । त्वा । अस्मिन् । सध-मादे

8.2.4

इन्द्र । इत् । सोम-पाः । एकः । इन्द्रः । सुत-पाः । विश्व-आयुः । अन्तः । देवान् । मर्त्यान् । च

8.2.5

न । यम् । शुक्रः । न । दुः-आशीः । न । तृप्राः । उरु-व्यचसम् । अप-स्पृण्वते । सु-हार्दम्

8.2.6

॥17॥.
-र्व्_5:7।18-
गोभिः । यत् । ईम् । अन्ये । अस्मत् । मृगम् । न । व्राः । मृगयन्ते । अभि-त्सरन्ति । धेनु-भिः

8.2.7

त्रयः । इन्द्रस्य । सोमाः । सुतासः । सन्तु । देवस्य । स्वे । क्षये । सुत-पाव्नः

8.2.8

त्रयः । कोशासः । श्चोतन्ति । तिस्रः । चम्वः । सु-पूर्णाः । समाने । अधि । भार्मन्

8.2.9

शुचिः । असि । पुरुनिः-स्थाः । क्षीरैः । मध्यतः । आशीर्तः । दध्ना । मन्दिष्ठः । शूरस्य

8.2.10

इमे । ते । इन्द्र । सोमाः । तीव्राः । अस्मे इति । सुतासः । शुक्राः । आशिरम् । याचन्ते

8.2.11

॥18॥.
-र्व्_5:7।19-
तान् । आशिरम् । पुरोळाशम् । इन्द्र । इमम् । सोमम् । श्रीणीहि । रेवन्तम् । हि । त्वा । शृणोमि

8.2.12

हृत्-सु । पीतासः । युध्यन्ते । दुः-मदासः । न । सुरायाम् । ऊधः । न । नग्नाः । जरन्ते

8.2.13

रेवान् । इत् । रेवतः । स्तोता । स्यात् । त्वावतः । मघोनः । प्र । इत् । ओं इति । हरि-वः । श्रुतस्य

8.2.14

उक्थम् । चन । शस्यमानम् । अगोः । अरिः । आ । चिकेत । न । गायत्रम् । गीयमानम्

8.2.15

मा । नः । इन्द्र । पीयत्नवे । मा । शर्धते । परा । दाः । शिक्षा । शची-वः । शचीभि ः

8.2.16

॥19॥.
-र्व्_5:7।20-
वयम् । ओं इति । त्वा । ततित्-अर्थाः । इन्द्र । त्वायन्तः । सखायः । कण्वाः । उक्थेभिः । जरन्ते

8.2.17

न । घ । ईम् । अन्यत् । आ । पपन । वज्रिन् । अपसः । नविष्टौ । तव । इत् । ओं इति । स्तोमम् । चिकेत

8.2.18

इच्छन्ति । देवाः । सुन्वन्तम् । न । स्वप्नाय । स्पृहयन्ति । यन्ति । प्र-मादम् । अतन्द्राः

8.2.19

ओ इति । सु । प्र । याहि । वाजेभिः । मा । हृणीथाः । अभि । अस्मान् । महान्-इव । युव-जानि ः

8.2.20

मो इति । सु । अद्य । दुः-हनावान् । सायम् । करत् । आरे । अस्मत् । अश्रीरः-इव । जामाता

8.2.21

॥20॥.
-र्व्_5:7।21-
विद्म । हि । अस्य । वीरस्य । भूरि-दावारीम् । सु-मतिम् । त्रिषु । जातस्य । मनांस् इ

8.2.22

आ । तु । सिञ्च । कण्व-मन्तम् । न । घ । विद्म । शवसानात् । यशः-तरम् । शतम्-ऊतेः

8.2.23

ज्येष्ठेन । सोतः । इन्द्राय । सोमम् । वीराय । शक्राय । भर । पिबत् । नर्याय

8.2.24

यः । वेदिष्ठः । अव्यथिषु । अश्व-वन्तम् । जरितृ-भ्यः । वाजम् । स्तोतृ-भ्यः । गो--मन्तम्

8.2.25

पन्यम्-पन्यम् । इत् । सोतारः । आ । धावत । मद्याय । सोमम् । वीराय । शूराय

8.2.26

॥21॥.
-र्व्_5:7।22-
पाता । वृत्र-हा । सुतम् । आ । घ । गमत् । न । आरे । अस्मत् । नि । यमते । शतम्-ऊतिः

8.2.27

आ । इह । हरी इति । ब्रह्म-युजा । शग्मा । वक्षतः । सखायम् । गीः-भिः । श्रुतम् । गिर्वणसम्

8.2.28

स्वादवः । सोमाः । आ । याहि । श्रीताः । सोमाः । आ । याहि । शिप्रिन् । ऋषि-वः । शची-वः । न । अयम् । अच्छ । सध-मादम्

8.2.29

स्तुतः । च । याः । त्वा । वर्धन्ति । महे । राधसे । नृम्णाय । इन्द्र । कारिणम् । वृधन्तः

8.2.30

गिरः । च । याः । ते । गिर्वाहः । उक्था । च । तुभ्यम् । तानि । सत्रा । दधिरे । शवांसि

8.2.31

॥22॥.
-र्व्_5:7।23-
एव । इत् । एषः । तुवि-कूर्मिः । वाजान् । एकः । वज्र-हस्तः । सनात् । अमृक्तः । दयते

8.2.32

हन्त । वृत्रम् । दक्षिणेन । इन्द्रः । पुरु । पुरु-हूतः । महान् । महीभिः । शचीभिः

8.2.33

यस्मिन् । विश्वाः । चर्षणयः । उत । च्यौत्ना । ज्रयांसि । च । अनु । घ । इत् । मन्दी । मघोनः

8.2.34

एषः । एतानि । चकार । इन्द्रः । विश्वा । यः । अति । शृण्वे । वाज-दावा । मघोनाम्

8.2.35

प्र-भर्ता । रथम् । गव्यन्तम् । अपाकात् । चित् । यम् । अवति । इनः । वसु । सः । हि । वोळ्हा

8.2.36

॥23॥.
-र्व्_5:7।24-
सनिता । विप्रः । अर्वत्-भिः । हन्ता । वृत्रम् । नृ-भिः । शूरः । सत्यः । अविता । विधन्तम्

8.2.37

यजध्व । एनम् । प्रिय-मेधाः । इन्द्रम् । सत्राचा । मनसा । यः । भूत् । सोमैः । सत्य-मद्वा

8.2.38

गाथ-श्रवसम् । सत्-पतिम् श्रवः-कामम् । पुरु-त्मानम् । कण्वासः । गात । वाजिनम्

8.2.39

यः । ऋते । चित् । गाः । पदेभ्यः । दात् । सखा । नृ-भ्यः । शची-वान् । ये । अस्मिन् । कामम् । अश्रियन्

8.2.40

इत्था । धी-वन्तम् । अद्रि-वः । काण्वम् । मेध्य-अतिथिम् । मेषः । भूतः । अभि । यन् । अयः

8.2.41

शिक्ष । विभिन्दो इतिवि-भिन्दो । अस्मै । चत्वारि । अयुता । ददत् । अष्ट । परः । सहस्रा

8.2.42

उत । सु । त्ये इति । पयः-वृधा । माकी इति । रणस्य । नप्त्या । जनि-त्वनाय । ममहे

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc