ऋग्वेदसंहिता, पदपाठ · अध्याय 8.1
॥9॥.
मन्दल 8
-र्व्_5:7।10-
(र्व्_8,1)
मा । चित् । अन्यत् । वि । शंसत । सखायः । मा । रिषण्यत । इन्द्रम् । इत् । स्तोत । वृषणम् । सच । सुते । मुहुः । उक्था । च । शंसत
अव-क्रक्षिणम् । वृषभम् । यथा । अजुरम् । गाम् । न । चर्षणि-सहम् । वि-द्वेषणम् । सम्-वनना । उभयम्-करम् । मंहिष्ठम् । उभयाविनम्
यत् । चित् । हि । त्वा । जनाः । इमे । नाना । हवन्ते । ऊतये । अस्माकम् । ब्रह्म । इदम् । इन्द्र । भूतु । ते । अहा । विश्वा । च । वर्धनम्
वि । तर्तूर्यन्ते । मघ-वन् । विपः-चितः । अर्यः । विपः । जनानाम् । उप । क्रमस्व । पुरु-रूपम् । आ । भर । वाजम् । नेदिष्ठम् । ऊतये
महे । चन । त्वाम् । अद्रि-वः । परा । शुल्काय । देयाम् । न । सहस्राय । न । अयुताय । वज्रि-वः । न । शताय । शत-मघ
॥10॥.
-र्व्_5:7।11-
वस्यान् । इन्द्र । असि । मे । पितुः । उत । भ्रातुः । अभुञ्जतः । माता । च । मे । छदयथः । समा । वसो इति । वसु-त्वनाय । राधसे
क्व । इयथ । क्व । इत् । असि । पुरु-त्रा । चित् । हि । ते । मनः । अलर्षि । युध्म । खज-कृत् । पुरम्-दर । प्र । गायत्राः । अगासिषुः
प्र । अस्मै । गायत्रम् । अर्चत । ववातुः । यः । परम्-दरः । याभिः । काण्वस्य । उप । बर्हिः । आसदम् । यासत् । वज्री । भिनत् । पुरः
ये । ते । सन्ति । दश-ग्विनः । शतिनः । ये । सहस्रिणः । अश्वासः । ये । ते । वृषणः । रघु-द्रुवः । तेभिः । नः । तूयम् । आ । गहि
आ । तु । अद्य । सबः-दुघाम् । हुवे । गायत्र-वेपसम् । इन्द्रम् । धेनुम् । सु-दुघाम् । अन्याम् । इषम् । उरु-धाराम् । अरम्-कृतम्
॥11॥.
-र्व्_5:7।12-
यत् । तुदत् । सूरः । एतशम् । वङ्कूइति । वातस्य । पर्णिना । वहत् । कुत्सम् । आर्जुनेयम् । शत-क्रतुः । त्सरत् । गन्धर्वम् । अस्तृतम्
यः । ऋते । चित् । अभि-श्रिषः । पुरा । जत्रु-भ्यः । आतृदः । सम्-धाता । सन्धिम् । मघ-वा । पुरु-वसुः । इष्कर्ता । वि-ह्रुतम् । पुनरिति
मा । भूम । निष्ट्याः-इव । इन्द्र । त्वत् । अरणाः-इव । वनानि । न । प्र-जहितानि । अद्रि-वः । दुरोषासः । अमन्महि
अमन्महि । इत् । अनाशवः । अनुग्रासः । च । वृत्र-हन् । सकृत् । सु । ते । महता । शूर । राधसा । अनु । स्तोमम् । मुदीमहि
यदि । स्तोमम् । मम । श्रवत् । अस्माकम् । इन्द्रम् । इन्दवः । तिरः । पवित्रम् । ससृ-वांसः । आशवः । मन्दन्तु । तुग्र्य-वृधः
॥12॥.
-र्व्_5:7।13-
आ । तु । अद्य । सध-स्तुतिम् । ववातुः । सख्युः । आ । गहि । उप-स्तुतिः । मघोनाम् । प्र । त्वा । अवतु । अध । ते । वश्मि । सु-स्तुतिम्
सोता । हि । सोमम् । अद्रि-भिः । आ । ईम् । एनम् । अप्-सु । धावत । गव्या । वस्त्राइव । वासयन्तः । इत् । नरः । निः । धुक्षन् । वक्षणाभ्यः
अध । ज्मः । अघ । वा । दिवः । बृहतः । रोचनात् । अधि । अया । वर्धस्व । तन्वा । गिरा । मम । आ । जाता । सुक्रतो इतिसु-क्रतो । पृण
इन्द्राय । सु । मदिन्-तमम् । सोमम् । सोत । वरेण्यम् । शक्रः । एणम् । पीपयत् । विश्वया । धिया । हिन्वानम् । न । वाज-युम्
मा । त्वा । सोमस्य । गल्दया । सदा । याचन् । अहम् । गिरा । भूर्णिम् । मृगम् । न । सवनेषु । चुक्रुधम् । कः । ईशानम् । न । याचिषत्
॥13॥.
-र्व्_5:7।14-
मदेन । इषितम् । मदम् । उग्रम् । उग्रेण । शवसा । विश्वेषाम् । तरुतारम् । मद-च्युतम् । मदे । हि । स्म । ददाति । नः
शेवारे । वार्या । पुरु । देवः । मर्ताय । दाशुषे । सः । सुन्वते । च । स्तुवते । च । रासते । विश्व-गूर्तः । अरि-स्तुतः
आ । इन्द्र । याहि । मत्स्व । चित्रेण । देव । राधसा । सरः । न । प्रासि । उदरम् । सपीति-भिः । आ । सोमेभिः । उरु । स्फिरम्
आ । त्वा । सहस्रम् । आ । शतम् । युक्ताः । रथे । हिरण्यये । ब्रह्म-युजः । हरयः । इन्द्र । केशिनः । वहन्तु । सोम-पीतये
आ । त्वा । रथे । हिरण्यये । हरी इति । मयूर-शेप्या । शिति-पृष्ठा । वहताम् । मध्वः । अन्धसः । विवक्षणस्य । पीतये
॥14॥.
-र्व्_5:7।15-
पिब । तु । अस्य । गिर्वणः । सुतस्य । पूर्वपाः-इव । परि-कृतस्य । रसिनः । इयम् । आसुतिः । चारुः । मदाय । पत्यते
यः । एकः । अस्ति । दंसना । महाम् । उग्रः । अभि । व्रतैः । गमत् । सः । शिप्री । न । सः । योषत् । आ । गमत् । हवम् । न । परि । वर्जति
त्वम् । पुरम् । चरिष्ण्वम् । वधैः । शुष्णस्य । सम् । पिणक् । त्वम् । भाः । अनु । चरः । अध । द्विता । यत् । इन्द्र । हव्यः । भुवः
मम । त्वा । सूरे । उत्-इते । मम । मध्यन्दिने । दिवः । मम । प्र-पित्वे । अपि-शर्वरे । वसो इति । आ । स्तोमासः । अवृत्सत
स्तुहि । स्तुहि । इत् । एते । घ । ते । मंहिष्ठासः । मघोनाम् । निन्दित-अश्वः । प्र-पथी । परम-ज्याः । मघस्य । मेध्य-अतिथे
॥15॥.
-र्व्_5:7।16-
आ । यत् । अश्वान् । वनन्-वतः । श्रद्धया । अहम् । रथे । रुहम् । उत । वामस्य । वसुनः । चिकेतति । यः । अस्ति । याद्वः । पशुः
यः । ऋज्रा । मह्यम् । ममहे । सह । त्वचा । हिरण्यया । एषः । विश्वानि । अभि । अस्तु । सौभगा । आसङ्गस्य । स्वनत्-रथः
अध । प्लायोगिः । अति । दासत् । अन्यान् । आसङ्गः । अग्ने । दश-भिः । सहस्रैः । अध । उक्षणः । दश । मह्यम् । रुशन्तः । नळाः-इव । सरसः । निः । अतिष्ठन्
अनु । अस्य । स्थूरम् । ददृशे । पुरस्तात् । अनस्थः । ऊरुः । अव-रम्बमाणः । शश्वती । नारी । अभि-चक्ष्य । आह । सु-भद्रम् । अर्य । भोजनम् । बिभर्षि
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0