भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 8.17

8.17.1

॥21॥.
-र्व्_6:1।22-
(र्व्_8,17)
आ । याहि । सुसुम । हि । ते । इन्द्र । सोमम् । पिब । इमम् । आ । इदम् । बर्हिः । सदः । मम

8.17.2

आ । त्वा । ब्रह्म-युजा । हरी इति । वहताम् । इन्द्र । केशिना । उप । ब्रह्माणि । नः । शृणु

8.17.3

ब्रह्माणः । त्वा । वयम् । युजा । सोम-पाम् । इन्द्र । सोमिनः । सुत-वन्तः । हवामहे

8.17.4

आ । नः । याहि । सुत-वतः । अस्माकम् । सु-स्तुतीः । उप । पिब । सु । शिप्रिन् । अन्धसः

8.17.5

आ । ते । सिञ्चामि । कुक्ष्योः । अनु । गात्रा । वि । धावतु । गृभाय । जिह्वया । मधु

8.17.6

॥22॥.
-र्व्_6:1।23-
स्वादुः । ते । अस्तु । सम्-सुदे । मधु-मान् । तन्वे । तव । सोमः । शम् । अस्तु । ते । हृदे

8.17.7

अयम् । ओं इति । त्वा । वि-चर्षणे । जनीः-इव । अभि । सम्-वृतः । प्र । सोमः । इन्द्र । सर्पतु

8.17.8

तुवि-ग्रीवः । वपाउदरः । सु-बाहुः । अन्धसः । मदे । इन्द्रः । वृत्राणि । ज् इघ्नते

8.17.9

इन्द्र । प्र । इहि । पुरः । त्वम् । विश्वस्य । ईशानः । ओजसा । वृत्राणि । वृत्र-हन् । जहि

8.17.10

दीर्घः । ते । अस्तु । अङ्कुशः । येन । वसु । प्र-यच्छसि । यजमानाय । सुन्वते

8.17.11

॥23॥.
-र्व्_6:1।24-
अयम् । ते । इन्द्र । सोमः । नि-पूतः । अधि । बर्हिषि । आ । इहि । ईम् । अस्य । द्रव । पिब

8.17.12

शाचिगो इतिशाचि-गो । शाचि-पूजन । अयम् । रणाय । ते । सुतः । आखण्डल । प्र । हूयसे

8.17.13

यः । ते । शृङ्ग-वृषः । नपात् । प्रनपाद् इतिप्र-नपात् । कुण्ड-पाय्यः । नि । अस्मिन् । दध्रे । आ । मनः

8.17.14

वास्तोः । पते । ध्रुवा । स्थूणा । अंसत्रम् । सोम्यानाम् । द्रप्सः । भेत्ता । पुराम् । शश्वतीनाम् । इन्द्रः । मुनीनाम् । सखा

8.17.15

पृदाकु-सानुः । यजतः । गो--एषणः । एकः । सन् । अभि । भूयसः । भूर्णिम् । अश्वम् । नयत् । तुजा । पुरः । गृभा । इन्द्रम् । सोमस्य । पीतये

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc