भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 8.16

8.16.1

॥19॥.
-र्व्_6:1।20-
(र्व्_8,16)
प्र । सम्-राजम् । चर्षणीनाम् । इन्द्रम् । स्तोता । नव्यम् । गीः-भिः । नरम् । नृ-साहम् । मंहिष्ठम्

8.16.2

यस्मिन् । उक्थानि । रण्यन्ति । विश्वानि । च । श्रवस्या । अपाम् । अवः । न । समुद्रे

8.16.3

तम् । सु-स्तुत्या । विवासे । ज्येष्ठ-राजम् । भरे । कृत्नुम् । महः । वाजिनम् । सनि-भ्यः

8.16.4

यस्य । अनूनाः । गभीराः । मदाः । उरवः । तरुत्राः । हर्षु-मन्तः । शूर-सातौ

8.16.5

तम् । इत् । धनेषु । हितेषु । अधि-वाकाय । हवन्ते । येषाम् । इन्द्रः । ते । जयन्ति

8.16.6

तम् । इत् । च्यौत्नैः । आर्यन्ति । तम् । कृतेभिः । चर्षणयः । एषः । इन्द्रः । वरिवः-कृत्

8.16.7

॥20॥.
-र्व्_6:1।21-
इन्द्रः । ब्रह्मा । इन्द्रः । ऋषिः । इन्द्रः । पुरु । पुरु-हूतः । महान् । महीभ् इः । शचीभिः

8.16.8

सः । स्तोम्यः । सः । हव्यः । सत्यः । सत्वा । तुवि-कूर्मिः । एकः । चित् । सन् । अभि-भूतिः

8.16.9

तम् । अर्केभिः । तम् । साम-भिः । तम् । गायत्रैः । चर्षणयः । इन्द्रम् । वर्धन्ति । क्षितयः

8.16.10

प्र-नेतारम् । वस्यः । अच्छ । कर्तारम् । ज्योतिः । समत्-सु । ससह्वांसम् । युधा । अमित्रान्

8.16.11

सः । नः । पप्रिः । पारयाति । स्वस्ति । नावा । पुरु-हूतः । इन्द्रः । विश्वा । अति । द्विषः

8.16.12

सः । त्वम् । नः । इन्द्र । वाजेभिः । दशस्य । च । गातु-य । च । अच्छ । च । नः । सुम्नम् । नेषि

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc