ऋग्वेदसंहिता, पदपाठ · अध्याय 8.11
॥34॥.
-र्व्_5:8।35-
(र्व्_8,11)
त्वम् । अग्ने । व्रत-पाः । असि । देवः । आ । मर्त्येषु । आ । त्वम् । यज्ञेषु । ईड्यः
त्वम् । असि । प्र-शस्यः । विदथेषु । सहन्त्य । अग्ने । रथीः । अध्वराणाम्
सः । त्वम् । अस्मत् । अप । द्विषः । युयोधि । जात-वेदः । अदेवीः । अग्ने । अरातीः
अन्ति । चित् । सन्तम् । अह । यज्ञम् । मर्तस्य । रिपोः । न । उप । वेषि । जात-वेदः
मर्ताः । अमर्तस्य । ते । भूरि । नाम । मनामहे । विप्रासः । जात-वेदसः
॥35॥.
-र्व्_5:8।36-
विप्रम् । विप्रासः । अवसे । देवम् । मर्तासः । ऊतये । अग्निम् । गीः-भिः । हवामहे
आ । ते । वत्सः । मनः । यमत् । परमात् । चित् । सध-स्थात् । अग्ने । त्वाम्-कामया । गिरा
पुरु-त्रा । हि । स-दृङ् । असि । विशः । विश्वाः । अनु । प्र-भुः । समत्-सु । त्वा । हवामहे
समत्-सु । अग्निम् । अवसे । वाज-यन्तः । हवामहे । वाजेषु । चित्र-राधसम्
प्रत्नः । हि । कम् । ईड्यः । अध्वरेषु । सनात् । च । होता । नव्यः । च । सत्सि । स्वाम् । च । अग्ने । तन्वम् । पिप्रयस्व । अस्मभ्यम् । च । सौभगम् । आ । यजस्व
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0